अधिकरणसारावली
अङ्गावबद्धाधिकरणम्
3.3.60 उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसान्निध्यगीतेः मैवं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसान्निध्यसिद्धेः । सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत् शब्दश्चोद्गीथमात्रं वदति नतु भिदां छागनीतिस्तु नात्र ।।