[highlight_content]

अधिकरणसारावली अन्तरत्वाधिकरणम्

अधिकरणसारावली

अन्तरत्वाधिकरणम्

3.3.41    सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः सिद्धान्ते ब्रह्मणश्ेत्यधिकरणगतिस्तोकशङ्कापनुत्यै । साक्षाद्ब्रह्मेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्या- दित्यालो्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः ।।

3.3.42    यत्साक्षादित्यमुष्मिञ्छ्रुतिशिरसि परं ब्रह्मवैद्यं यदेवे- त्येतस्मिंश्ास्त्वथापि प्रतिवनभिदा तत्र रूपं भिनत्ति । विद्याभित् प्रष्टृभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात् पश्ादुक्तश् दोषात्यय इह न भिदां सौति साधारणत्वात् ।।

3.3.43    सद्विद्यायां यथा हि प्रतिवनभिदा प्रश्नभेदानुसारात् विद्यैकत्वे विशेष्यं प्रकटयति परां देवतामेवमत्र । तेनोषस्तः कहोलश्रुतमपि स तत्संश्रुतं सङ्कलय्य ध्यायेतां ब्रह्म सर्वान्तरमिति फलवत्तत्र सब्रह्मर्यम् ।।

Languages

Related Parts

error: Content is protected !!