अधिकरणसारावली
आनन्दाद्यधिकरणम्
3.3.14 नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् । तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ।।
3.3.15 सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च । त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत् तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ।।
3.3.16 उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न । हेतोरीशस्य हेत्वन्तरगतविविधावद्यवर्गप्रसङ्गे शङ्कारूढे क्रमेणेतरविभजनतस्तस्य साफल्यसिद्धेः ।।
3.3.17 नन्वाध्यानं प्रियाद्यैरपि भवति शिरः पक्षपुच्छादिरूपैः बाढं तत्र प्रियाद्यैस्तदवगतिरतस्ते तु सर्वानुवृत्ताः । पुच्छाद्यंशो निरंशे न भवतु न च तद्दृष्टिरुत्कृष्टतत्त्वे तस्माच्चित्याग्निरूपक्रमवदिह कृतं रूपणं ब्रह्मणि स्यात् ।।
3.3.18 आनन्दत्वप्रधानं कतिचिदिह विदुस्सौत्रमानन्दशब्दं धर्मानन्दाभिधानं तदुभयवचनं वेति पश्यन्ति केचित् । ज्ञानोक्तौ चैतदेवं तदितरसमता यावता स्यान्न शङ्क्या तावद्धर्मानुवृत्तिर्बहुभजनपदे ब्रह्मणि स्थाप्यतेऽत्र ।।