अधिकरणसारावली
पुरुषविद्याधिकरणम्
3.3.26 आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं यज्ञाद्याकारक्लृप्तेरिह विषमतया रूपभेदप्रसिद्धेः । तादर्थ्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ।।
3.3.27 स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात् पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न । अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने- त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ।।
3.3.28 यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र । तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये तिष्ठत्वेतद् द्विधापि प्रकृतसुघटिता सम्प्रदायस्तु चिन्त्यः ।।