अधिकरणसारावली
पूर्वविकल्पाधिकरणम्
3.3.55 अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्याद् बुद्ध्यात्माग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे । तद्वीर्यस्यातिदेशादिति न सदुदितो ह्यत्र विद्यात्मकोऽङ्गी श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः ।।
3.3.56 कल्प्यो ह्यत्र क्रियात्मा क्रतुरपि तदपि प्रागुपात्ताङ्गशक्त्या वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु । दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो लघीयान् अप्राप्तेऽर्थे विधित्वं ह्यनुवदनसमेऽप्याश्रितं तद्वदत्र ।।