अधिकरणसारावली
प्रदानाधिकरणम्
3.3.49 कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तेर्विभक्ता धर्मोपास्तिस्तदर्थं गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् । तत्तद्वैशिष्ट्यभेदात् प्रतिविधि गुणिनश्चिन्तनावृत्तिरर्थ्या राजत्वाद्यैः पृथक्त््वाद्भवति हि हविषो दानमावृत्तमिन्द्रे ।।
3.3.50 तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुः मुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् । शास्त्रेऽस्मिन्ना समाप्तेः क्व फलमभिहितं निर्गुणोपास्तिसाध्यं नोच्छास्त्रञ्च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः ।।
3.3.51 प्रत्येकं मेलनाद्वा दहरगुणगणेऽप्यत्र सञ्चिन्त्यमाने गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशङ्केति चेन्न । बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमर्थ्यं ततोऽन्यद् विद्यैकान्तं तदावृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः ।।