अधिकरणसारावली
भूमज्यायस्त्वाधिकरणम्
3.3.61 व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः कृत्स्नोपास्तौ फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः । मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तुतिस्स्याद् दृष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ।।
3.3.62 सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या व्यस्तेष्वंशाननूद्य स्तुतिनियतनयादान्यपर्यं फलोक्तेः । नामादीनामुपास्तौ फलमवधितयापेक्षितं भूमवाक्ये नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाहृतिर्नार्थसिद्धै ।।