अधिकरणसारावली
यथाश्रयभावाधिकरणम्
3.3.68 तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात् प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति । मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ।।
3.3.69 तादर्थ्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद् विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे । तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं प्रग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ।।
3.3.70 विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः । शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा पुंविद्याया विभेदोऽध्ययननियतता शन्न इत्यादिकानाम् ।।
3.3.71 हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं सर्वत्रास्थूलतादि व्यतिहरणमथानेकशिष्यश्रुतानाम् । दह्रोपास्त्येकभावो गुणफलविधिरुद्गीथमाश्रित्य दृष्टौ गुण्यावृत्तिर्गुणार्थं निखिलपरतरोपास्तिवेद्यावसायः ।।
3.3.72 विद्यारूपा मनश्चित्प्रभृतय उचिता ज्ञानरूपक्रतुस्थाः क्षेत्री शुद्धोऽनुचिन्त्यः क्रतुगुणसकलोद्गीथपूर्वेषु दृष्टिः । सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिः मोक्षार्थनां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे ।।