[highlight_content]

अधिकरणसारावली लिङ्गभूयस्त्वाधिकरणम्

अधिकरणसारावली

लिङ्गभूयस्त्वाधिकरणम्

3.3.52    प्रक्रान्ता दह्रविद्या प्रकटमुपरि ज्ञायते तैत्तिरीये तस्मादूर्ध्वानुवाकः प्रकृतिविषयनिर्धारणार्थोऽस्तु, मैवम् । तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्य शब्दैः तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ॥

3.3.53    वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्र भागीति सार्थः तल्लिङ्गोपेतभागो न बहुभिरलं योद्धुमेकं गतार्थम् । नैकस्यास्योपकुर्यात् प्रकरणमलसं किञ् सर्वोपजीव्ये तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागक्लृप्तिः ॥

3.3.54    आत्मैक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम् अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः । त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश् श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ॥

Languages

Related Parts

error: Content is protected !!