अधिकरणसारावली
विकल्पाधिकरणम्
3.3.66 ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्ध्यै समुच्चि- त्यर्हास्स्युर्ब्रह्मविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् । कर्तुं ताः कालभेदात् क्षममिति न मिथो वासनास्थैर्यबाधात् सम्पूर्णब्रह्मलब्धै पृथगिह च विधिः प्रायणान्ते समाधौ ।।
3.3.67 रूपादीनां विशेषैर्ननु परभजनं नैकरूपं विभक्तं सामग्रीभेदतस्तत्फलमपि विषमं सम्मतं न्यायतस्स्यात् । न स्यात् सर्वासु विद्यास्वपि हि फलतया वक्ष्यते भोगसाम्यं प्राप्यैक्यञ्च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ।।