[highlight_content]

अधिकरणसारावली शब्दादिभेदाधिकरणम्

अधिकरणसारावली

शब्दादिभेदाधिकरणम्

3.3.63    सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति ाख्या ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् । तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः मिश्रं मध्वादिविद्याफलमिह पृथक्काम्यविद्यासु ैवम् ।।

3.3.64    नानाशब्दादिभेदादिति कथमवदत् सूत्रकृ्छब्दसाम्ये न ह्येते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः । सत्यं शब्दस्य भेदस्त्वयमुपरितो रूपभेदद्रढिम्ने ज्ञानं ये ाविधेयं करणमिति जरतुस्तन्निरासेऽभिसन्धिः ।।

3.3.65    यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक् न्यासोपासे विभक्ते यजनहवनव्छब्दभेदादभाक्तात् । आख्यारूपादिभेदश्श्रुत इतरसमः किञ् भिन्नोऽधिकारः शीघ्रप्राप्त्यादिभिस्स्याज्जगुरिति मधूपासनादौ व्यवस्थाम् ।।

Languages

Related Parts

error: Content is protected !!