अधिकरणसारावली
हान्यधिकरणम्
3.3.30 शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं ब्रूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले । हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ।।
3.3.31 इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् क्लृप्तिदौस्स्थ्यात् । सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ।।
3.3.32 कर्त्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे तस्माद् ब्रह्मज्ञकर्म द्विषति सुहृदि वा नापतेदित्ययुक्तम् । विद्यामाहात्म्यतो यद्विगलति विदुषः कर्म तत्साध्यतुल्यं विद्वत्प्रद्वेषभक्त्योः फलमिति कथने वाक्यतात्पर्यसिद्धेः ।।