अधिकरणसारावली
अग्नीन्धनाद्यधिकरणम्
3.4.12 यज्ञादेरङ्गभावाच्च तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्यात् विद्यैवं नोर्ध्वरेतस्स्विति न बहुविधस्वाश्रमार्हाङ्गतोक्तेः । विद्यायोगश्चतुर्णां विधिरपि हि समश्श्रूयते स्मर्यते च प्रायेणौचित्यभूम्ना मुनिभिरभहितं क्वापि मोक्षाश्रमत्वम् ।।