अधिकरणसारावली
पारिप्लवाधिकरणम्
3.4.11 विद्यास्वाख्यानभेदा विधिमहिमहृतास्सन्तु पारिप्लवार्थाः न स्युर्विद्याविधानैः प्रकरणपठितैरेकवाक्यत्वदृष्टेः । मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थं तेनाकाङ्क्षानिवृत्तौ न तदधिकपराख्यानतादर्थ्यक्लृप्तिः ।।