अधिकरणसारावली
॥ अथ तृतीयाध्याये चतुर्थ: पाद: ॥
पुरुषार्थाधिकरणम्
3.4.1 कर्म प्राक् चिन्तयित्वा ननु परममथ ब्रह्म जिज्ञास्यमुक्तं पादे विद्याङ्गतोक्तिः पुनरिह वितथानेकधा त्याज्यतोक्तेः । मैवं कर््््मैव तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नं विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यान्नवृत्येकसंज्ञम् ।।
3.4.2 त्यागः काम्यक्रियायां क्वचन परविदः क्वाप्यनर्हक्रियायां स्वैकाधीनत्वबुद्धेः क्वचिदनुपधिकस्वार्थबुद्धेश्च गतिः । अत्राहिंसादिकानां त्वघविहतिकृतां सर्वसाधारणानां ब्रूते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ।।
3.4.3 कर्तात्मा कर्मणां यस्तदधिकमिह न ब्रह्म तस्मान्मखादौ तद्बुद्ध्यैवोपयुक्तास्स्युरुपनिषद इत्यज्ञमीमांसकोक्तौ । जीवान्यब्रह्मचिन्तात्मकभजनविधौ कर्मणामङ्गभावं प्राह क्षिप्तान्यलिङ्गः कलुषशमनतस्सत्त्वसंवर्धकानाम् ।।
3.4.4 पादैरत्रैवमेकादशभिरपि परं ब्रह्म वेद्यं निरूढं भूयः किं क्षुद्रलिङ्गैर्गगनलिपिसमैः क्षोभ्यते ब्रह्मविद्या । सत्यं तत्तादृगल्पश्रुतमतिकलहत्रासितच्छात्रडिम्भ- स्तोमक्षेमाय जैमिन्यहृदयकथितं पक्षमुत्क्षिप्य हन्ति ।।
3.4.5 कुर्वन्नेवेति वाक्यं परविदि नियताचारतोक्तिस्सहैवा- न्वारम्भो धीक्रियाभ्यामपि न नियमयेदङ्गतामङ्गितां वा । विद्यापूर्वं क्रियाणां करणमनुवदद्वाक्यमन्यार्थमुक्तं न ह्येतद् ब्रह्मविद्यामनुवदति न चोद्गीथविद्या क्रियाङ्गम् ।।
3.4.6 स्वाध्यायप्राप्तये ह्यध्ययनमुदितमाघानवन्नोत्तराङ्गं विद्याङ्गं त्वर्थबोधो भवतु यदधिका सा स्वरूपैः फलैश्च । नित्यात्मज्ञानमात्रं क्रतुषु नियमतोऽपेक्षितं नान्यविद्या काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ।।
3.4.7 नाङ्गं विद्या मखादेर्न हि तदधिकृतेष्वेव तामामनामः स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद् वैपरीत्योपदेशात् । जाबालैरूर्ध्वरेतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात् प्राप्तिर्ग्राह्यान्यथापि स्वयमिह तु विधिस्तन्निषेधस्सरागे ।।