अधिकरणसारावली
मुक्तिफलाधिकरणम्
3.4.29 अस्त्वन्यत्रान्तरायः प्रबलतममिदं सात्त्विकत्यागयुक्तं कर्म प्रोक्तं निवृत्त्याह्वयमिति सपदि ब्रह्मविद्यां विदध्यात् । मैवं तस्माद् बलीयान् यदि भवति परब्रह्मभक्तापराधः तच्छान्तौ तत्प्रसूतिस्स न यदि झटिति स्यात्परोपास्तिलाभः ।।
3.4.30 विद्यार्थत्वं क्रियाणां व्यभिचरणवशान्नेति शङ्कापनुत्त्यै प्रत्यूहानाञ्चतुर्णां प्रशमनमुचितं सर्वदेति प्रसिद्ध्यै । निष्प्रत्यूहस्य सद्यः फलमिति च सतां तोषहेतोरमुष्मिन् पादान्ते न्यासिषातामनियमविषयौ शास्त्रकर्त्राधिकारौ ।।
3.4.31 प्रत्यूहस्य प्रसङ्गः क्षम इह परवित्कर्मणां तद्विधूत्यै भोगार्थोपास्तिहेतुष्वयमनुकथितः किं मुधात्रेति चेन्न । काम्ये निर्विघ्नबुद्ध्या पतति मतिरतस्तत्र वैराग्यभूम्ने तत्प्रत्यूहप्रसक्तिर्भवति फलवती स्याच्च विद्यार्थकाम्यम् ।।
3.4.32 विद्या कर्माङ्गिका स्याद्रसतममुखधीश्चोदिता प्राप्त्यभावात् आख्यानानाञ्च विद्याविधिसविधजुषां तद्विधानार्थतैव । विद्या साङ्गोर्ध्वरेतस्स्वपि गृहवति सा यज्ञदानाद्यपेक्षा शान्त्याद्यर्हो गृहस्थोऽप्यविपदि विदुषोऽप्यन्नशुद्ध्यैव सिद्धिः ।।
3.4.33 एकं विद्याश्रमार्थं विधुरमवियुतं विद्ययाहुश्च्युतं न क्रत्वङ्गे दृष्टिर्ऋत्विक्कृतिरथ मुनिता चोदिता ध्यानसिद्ध्यै । बाल्यं शक्त्यादिगुप्तिर्बलवदभिहतैः कर्मभिर्नान्यविद्या तद्वन्मुक्त्यर्थविद्या स्वजनकसुकृतैरित्युवाचात्र पादे ।।
3.4.34 वाक्यार्थज्ञानमात्रं कतिचन कुदृशो मुक्त्युपायं गृणन्ति ज्ञानं कर्मेति युग्मं करणमिति समुच्चित्य मन्यन्त एके । कर्मप्राधान्यमन्ये निजगदुरपरे मुक्तिमिच्छन्त्यसाध्यां सर्वे तेऽप्यत्र कर्माङ्गकभजनविधिस्थापनोक्त्या निरस्ताः ।।
3.4.35 यद् दुःखं वर्तते तत्क्षणभिदुरतया न स्वयत्नोपरोध्यं नातीतार्थञ्च यत्नो न च सुपरिहरं भाविहेतौ समग्रे । दुःखात्यन्तोपरोधे करणविधिरतो व्यर्थ इत्यर्धरम्यं प्रायश्चित्त्या कृतानां परमकरणतो दुःखसामग्र्यपोहात् ।।
3.4.36 राजद्विष्टादि सर्पाद्यपि परिहरसि च्छत्रपूर्वं बिभर्षि प्रायश्चित्ताप्रवृत्तौ फलति दुरितमित्येवमीहामिहेच्छ । उत्प्रेक्षारूढभाव्यापजयशमनतस्स्वोक्तिसाफल्यमिच्छन् पश्यंश्चाबालतिर्यग्भयचकितगतिं जोषमित्थं जुषस्व ।।
3.4.37 साध्यं वा साधनं वा स्वविहितविपथैर्दुर्निरूपं वदन्तः तद्वादे किं प्रवृत्ताः किमिति च विदधत्यन्वहं भोजनादीन् । मुक्तेर्नित्यत्वसिद्ध्या भजनमफलमित्यप्यसत् प्रागसिद्धेः सांख्यास्त्वत्रानुयोज्यास्सकरणदशया नित्यमुक्तिं गृणन्तः ।।
3.4.38 मोक्षोभावे मुधा स्यात्सपरिकरमिदं साधनं चिन्त्यमानं मुक्तिश्चेद् भ्रान्तिसिद्धा भ्रम इह भविता यावदात्मस्वरूपम् । क्षेत्रज्ञं नित्यमुक्तं कथयितुरफलस्साधनाध्याय इत्थं प्रध्वंसात्मा हि मुक्तिर्नयविदभिमता सा तु भावात्मिका नः ।।
3.4.39 सन्तत्यात्मा कपालप्रभृतिबहुविधावस्थयान्यत्र नाशो धीसङ्कोचप्रणाशो विकसनमतथाभूतमत्रागमात्स्यात् । मन्यन्तेऽन्ये तु धारावहनमतिनयात् सन्ततिं मुक्तबुद्धेः सामग्री चेश्वरेच्छाप्रभृतिसमुदयस्स्यादनावृत्तिरेवम् ।।