[highlight_content]

अधिकरणसारावली विधुराधिकरणम्

अधिकरणसारावली

विधुराधिकरणम्

3.4.20    दारालाभे विरक्तेर्म्रदिमनि भवेदन्तरेणाश्रमान् यः तस्मिन्निश्शेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति ेन्न । सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्सा हि तत्रापि साङ्गा भीष्मादौ दृष्टमेतद् भवति तु वृषले गत्यभावादभावः ।।

3.4.21    आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यः तत्रापि ब्रह्मविद्या भवतु सहकृता तद्दशार्हैस्स्वधर्मैः । मैवं यद्यप्यभी्छन्त्युपपतनमिदं शोधकञ्ास्त्यनेकं सर्वार्हं कीर्तनाद्यं तदपि तदुितो नैष तादृङ्निषेधात् ।।

3.4.22    प्रायश्ित्तं वदन्ति ह्युपपतनमहापातयोर्ब्रह्मयोगं प्राप्ते पाते प्रमादाद् विदधति मुनयो योगिनां योगमेव । तस्मादारूढपातेऽप्यधिकृतिरिति नाोदनीयं हि शास्त्रं यावज्जीवं तु तन्निष्कृतिरिति नियमस्सूत्रकाराद्यभीष्टः ।।

3.4.23    यो बालं हन्ति यस्स्रीं शरणमुपगतं यश् यो वा कृतघ्नः प्रायश्ित्तैर्विशुद्धानपि जगदुरिमान्साधुसंसृष्ट्यनर्हान् । स्मृत्याारानुसारादिह गतिरियं दर्शिता सूत्रकारैः शास्त्रं नश्शासनीयं यदि भवति तदा सम्प्लुतो धर्मसेतुः ।।

error: Content is protected !!