अधिकरणसारावली
विधुराधिकरणम्
3.4.20 दारालाभे विरक्तेर्म्रदिमनि च भवेदन्तरेणाश्रमान् यः तस्मिन्निश्शेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न । सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्सा हि तत्रापि साङ्गा भीष्मादौ दृष्टमेतद् भवति तु वृषले गत्यभावादभावः ।।
3.4.21 आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यः तत्रापि ब्रह्मविद्या भवतु सहकृता तद्दशार्हैस्स्वधर्मैः । मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधकञ्चास्त्यनेकं सर्वार्हं कीर्तनाद्यं तदपि तदुचितो नैष तादृङ्निषेधात् ।।
3.4.22 प्रायश्चित्तं वदन्ति ह्युपपतनमहापातयोर्ब्रह्मयोगं प्राप्ते पाते प्रमादाद् विदधति मुनयो योगिनां योगमेव । तस्मादारूढपातेऽप्यधिकृतिरिति नाचोदनीयं हि शास्त्रं यावज्जीवं तु तन्निष्कृतिरिति नियमस्सूत्रकाराद्यभीष्टः ।।
3.4.23 यो बालं हन्ति यस्स्रीं शरणमुपगतं यश्च यो वा कृतघ्नः प्रायश्चित्तैर्विशुद्धानपि जगदुरिमान्साधुसंसृष्ट्यनर्हान् । स्मृत्याचारानुसारादिह च गतिरियं दर्शिता सूत्रकारैः शास्त्रं नश्शासनीयं यदि भवति तदा सम्प्लुतो धर्मसेतुः ।।