अधिकरणसारावली
विहितत्वाधिकरणम्
3.4.19 वर्णादेः कर्मणां हि श्रुतिभिरभिदधे ब्रह्मविद्याङ्गभावः तस्मादब्रह्मनिष्ठे तदननुसरणात्स्वैरितैवास्तु मैवम् । नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्त्यन्यभावानुसारात् तन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ।।