अधिकरणसारावली
सर्वान्नानुमत्यधिकरणम्
3.4.18 आहारस्य व्यवस्था न भवति वचनात्प्राणविद्याधिकर्तुः सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् । अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठे ह्युषस्तौ ।।