अधिकरणसारावली
सर्वापेक्षाधिकरणम्
3.4.13 त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्ट्या विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः । यज्ञेनेत्यादिकाभिश्श्रुतिभिरवगता ह्यस्य सा तत्प्रसाध्या जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवर्त्यः ।।
3.4.14 नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावात् श्रुत्युक्तेऽस्मिंस्तथा नेत्यसदिह च यतो गत्यभावस्समानः । इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न साध्या जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ।।
3.4.15 नन्वत्रेच्छानुवृत्तिं प्रति विहितमिदं कर्म योज्यम् ततः किं नेच्छार्थं धीविशेषप्रजननमुदितं तावता वारितं स्यात् । ज्ञानार्थं कर्मविध्यन्तरमपि विविधं नापलापक्षमं ते निध्यानन्यायतोऽतस्त्वनुवदति विधेयेष्टतां सन्प्रयोगः ।।