अधिकरणसारावली
स्तुतिमात्राधिकरणम्
3.4.8 जुह्वादिस्तोत्रनीत्या भजतु रसतमाद्युक्तिरङ्गस्तुतित्वं मैवं तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः । तत्तद्दृष्टेर्विधानं विविधमिह समालक्षि चैतत्समीपे तेनानन्यार्थशिष्टे फलवति च विधिर्युज्यते कल्प्यमानः ।।
3.4.9 किञ्च प्राप्तेरभावान्न तदनुवदनं नाधिरोप्यस्तुतिर्वा युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः । उत्कर्षः कल्प्यते चेदगतिकविषये तत्प्रसह्य प्रसह्यं मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विद्यार्थमेतत् ।।
3.4.10 विद्यार्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं दृष्ट्युद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः । नित्येऽस्मिन्ह्यप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे त्वित्थम्भावे बुभुत्स्ये वच इह फलवद् दृष्टिविध्यर्थमेव ।।