अधिकरणसारावली
अग्निहोत्राद्यधिकरणम्
4.1.38 श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् । तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं न स्याद्बन्धाय विद्याङ्कुरमुपचिनुते ह्यग्निहोत्रादिधर्मः।।
4.1.39 सर्वापेक्षेत्यवोचन्ननु परभजने कर्मणामङ्गभावं भूयो वक्त्यग्निहोत्रेत्यपि तदिति मुधा ह्येकमत्रेति चेन्न। विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः।।