अधिकरणसारावली
अनारब्धकार्याधिकरणम्
4.1.36 नश्यत्वारब्धकार्यं परविदि दुरितं नह्यधीतो विशेषः सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात्। सद्विद्या तस्य तावच्चिरमिति च वदत्यस्मरंश्चागमज्ञाः जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः।।
4.1.37 रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः प्रत्येतुस्स्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत्। तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकाराद्यभीष्टा।।