अधिकरणसारावली
आत्मत्वोपासनाधिकरणम्
4.1.13 जीवादत्यन्तभिन्नस्स विभुरभिदधे लक्षणैस्साधनान्तैः मुक्त्यर्थोपासनेऽस्मिन्मुषिततमसि न ब्रह्मदृष्ट्यादियुक्तिः। तत्त्वज्ञे वीतरागे तदिह न घटते सोऽहमस्मीत्युपास्तिः तन्न स्वात्मान्तरात्मन्यहमिति वचसोऽप्यत्र मुख्यप्रवृत्तेः।।
4.1.14 वस्विन्द्रादेरुपास्तौ प्रकृतिशबलितस्वान्वितेक्षा पुरोक्ता शुद्धस्स्वात्मा च नित्यः क्वचिदिह तु विभुस्तादृशा स्वेन युक्तः। व्यक्तिर्जीवेशभेदे व्यधिकरणपदैर्भावने स्यात्तथापि ब्रह्माधीनस्वरूपप्रमितिसुदृढतासिद्धयेऽहङ्ग्रहोक्तिः।।
4.1.15 ऐक्योपास्तावहं त्वं त्वमहमिति मतिर्निर्विशेषे कथं स्याद् भेदाभेदाभिलापः करकमणिकतद्व्योमनीत्या न मुख्यः। मत्तुल्यस्त्वं त्वयाहं सम इति वदतां नोपचारोऽपि युक्तः तस्मात्सर्वान्तरात्मन्ययमहमिति धीराकृतिन्यायसिद्धा।।
4.1.16 अद्वैतं द्वैतहानौ न भवति सुवचं तत्प्रतिद्वन्द्विकत्वात् द्वैतञ्चाद्वैतगर्भं द्वितयमिह हि तत्स्वस्वरूपादभिन्नम्। द्वैताद्वैतञ्च तादृक्तदुभयनियमानुज्ज्ञानादेव सिध्येत् सर्वं स्थाने स्थितं स्यात् प्रमितिपरवतां नेतरेषां तु किञ्चित्।।
4.1.17 नन्वद्वैते निषेध्यो गगनकुसुमवद् भ्रान्तिसिद्धोऽस्तु भेदो मैवं सत्यादभिन्नस्स यदि न खलु तद्भ्रान्तिसिद्धत्वसिद्धिः। भिन्नत्वञ्चास्य तस्माद्यदि भवति मृषा विद्धि दत्तोत्तरं तत् सत्यञ्चेत् सत्यभेदोपगतिरिति मुधा दूरतो धावनं वः।।