अधिकरणसारावली
आप्रयाणाधिकरणम्
4.1.28 एकस्मिन्नेव घस्रे यदि भवति परध्यानरूपा तु भक्तिः तद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्रह्मचिन्तेत्ययुक्तम्। छान्दोग्ये यावदायुस्सुचरितमुदितं ब्रह्मलोकाप्तिहेतोः तद्धि ध्यानस्य वृद्ध्यै तदपि च विहितं कुत्रचित्प्रायणान्तम्।।