अधिकरणसारावली
॥ अथ चतुर्थाध्याये प्रथम: पाद: ॥
आवृत्त्यधिकरणम्
4.1.1 इत्युत्पत्तिक्रमेण प्रथममभिहितो मुक्त्युपायस्सहाङ्गैः तत्साध्यं सूत्रकारः फलमथ विदुषः पर्वभेदैर्व्यनक्ति। स्थूले देहेऽस्य सिध्येद्यदिह वदति तत्पादयुग्मेन पूर्वं निष्क्रान्तस्याथ यत्स्यात्परिगणयति तत्पादयुग््मान्तरेण ।।
4.1.2 सूक्ता प्रागेव विद्या किमिति पुनरिमां वक्ति यद्यस्ति शेषं ब्रूतामेतच्च पूर्वं नहि तदिह फले संघटेतेति चेन्न। मुक्तैरन्यैरसिद्धिं प्रकृततदविनाभावमासन्नसिद्धिं मुक्तावस्थासमञ्च स्थिरभजनरसं व्यङ्क्तुमत्रानुबन्धः ।।
4.1.3 शुद्धैरुत्कृष्टधर्मैस्सदनपचरणे ब्रह्मविद्या भवित्री- त्युक्तं पूर्वाधिकारे विमृशति तु परं तत्स्वरूपं यथावत्। प्रत्यक्षं वा स्मृतिर्वा सकृदिदमसकृद्वेति नोक्तं पुरस्तात् यावज्जीवानुवृत्तिप्रभृति च तदिहापौनरुक्त्यं सुबोधम्।।
4.1.4 ज्ञानं मुक्तेरुपायश्श्रुतिभिहितस्तस्य संख्या तु नोक्ता सौकर्यं स्यात्सकृत्त्वे तत इह तु भवेच्चारितार्थ्यं विधीनाम्। सम्यक्त्वात्तद्ध्रुवत्वं न पुनरनुगमात्प्रोक्तमित्यप्यसारं सामान्योक्तेर्विशेषे सति पशुनयतस्तत्र विश्रान्तिसिद्धेः।।
4.1.5 किञ्चाग्नेयादिनीत्या विदिरिह वदति ध्यानशब्दार्थमेव ध्याने चोपासनोक्तिः परभजनतया वक्ति सेवात्मकत्वम्। ऐकार्थ्ये विद्युपास्योव्यतिकरिततया श्रूयते च प्रयोगः कार्ये हेतौ च भक्तेः क्वचिदुपचरितो भक्तिभेदत्ववादः।।
4.1.6 योगोद्युक्तेषु यस्स्यात्स्ववरणविषयस्तेन लभ्यः परात्मा ग्राह्यत्वञ्च प्रियत्वात्तदपि हि गुणतो भक्तिरेव श्रुतैव । साच प्रीत्यात्मिका धीः क्वचिदतिशयिते स्मृत्यबाधोऽप्यतस्स्यात् प्रोक्ता चैषा ध्रुवानुस्मृतिरनुवहनात्तैलधाराक्रमेण।।
4.1.7 रागादादौ प्रवृत्तिश्श्रवणमननयोर्ध्यानमेकं विधेयं तत्र द्रष्टव्यशब्दो विशदतमतया वक्ति वैशिष्ट्यमात्रम्। शब्दोत्थं दर्शनं ये विषयमकथयन् वेदनोक्तेरमीषां व्याघातादिप्रपञ्चस्स्वयमिह निपुणैस्सूक्ष्ममन्वेषणीयः।।
4.1.8 ध्याने वैशद्यमात्रादुपचरणवती दृष्टिशब्दप्रवृत्तिः स्यात्तुल्यं तत्तवापि ह्यभिलपति धियं चाक्षुषीं दृष्टिशब्दः। घ्रातास्प्रष्टेतिशब्दः करणविरहिते मुख्यवृत्तो नहि स्यात् तद्ग्राह्यस्त्वस्मदीयो बहुनयगुणवांस्त्याज्य एव त्वदीयः।।
4.1.9 न द्वारद्वारिक्लृप्तिः कथमपि घटते विश्रमश्चेद्विशेषे सामान्यात्मा विशेषैर्लघु च न गुरुभिः कर्तुरैक्ये विकल्प्यम्। अर्थैक्ये दर्शनोक्त्या स्मृतिरुपचरिता युज्यते स्पाष्ट्यसिद्ध्यै स्मृत्युक्त्या दर्शनस्योपचरणमसदित्यन्यदेतत्फलान्नः।।
4.1.10 कृच्छ्रादौ शक्तिहीनो दृढपरितपनस्संयमार्हश्च कुर्यात् सर्वार्थां केशवानुस्मृतिमिति घटते तद्विकल्पो यथार्हम्। सामान्यात्सर्वदोषेष्वियमुपकुरुते सर्वनैमित्तिकानां मुक्तेरप्यत्र मूलं मुनिरनुमनुत तां तादृशध्यानरूपाम्।।
4.1.11 नन्वेवं ये मुकुन्दे शरणमुपगता वर्जिता ध्यानयोगैः ते चातिक्रम्य मृत्युं यमिन इव परं धाम यान्तीत्युशन्ति। सत्यं तेऽपीतिशब्दान्नियतविषययोर्गौरवे लाघवेऽपि प्राप्तार्थं ध्यानशास्त्रं प्रणिधिसहदशायोगिभिर्योगविद्भिः ।।
4.1.12 धर्मो वर्णादियोग्यः कलुषशमनतस्सत्त्ववृद्ध्योपकारी भक्तेस्तद्वत्प्रपत्तिस्त्वगतिकसमयेष्वन्तरायापहन्त्री। सानुक्रोशे हि शक्ते शरणवरणतस्सर्वसाध्यं सुसाधं मोक्षाकाङ्क्षी प्रपद्ये शरणमहमिति क्वापि मन्त्रे श्रुतञ्च।।