अधिकरणसारावली
आसीनाधिकरणम्
4.1.24 आसीनस्यैव योगश्श्रुतिषु न ददृशे ध्यानमाहुस्सदेति न्यायश्चेलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम्। तस्मादेतद्धटेत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्ये- त्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात्।।
4.1.25 चित्तैकाग्र्योपपत्त्यै विदधति नियतिं देशकालासनादेः सच्छिद्रं त्वन्यदापि क्षममिति सततं चिन्तनं संस्मरन्ति। प्रत्यक्संस्कारभूम्ना परनिहितधियस्तादधीन्यादिबुद्ध्या जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम्।।
4.1.26 कर्मोपास्त्यङ्गभूतं यदिह निगदितं तत्परे पूर्वपादे योगेन ब्रह्मदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः। तेन प्राधान्यसिद्धावितरदनुगुणं तस्य नेयं तथा च प्रायः प्रकान्तयोगे पटिमलघुतया कल्पितः कालयोगः।।
4.1.27 विद्याङ्गं पूर्वमुक्तं किमिहं पुनरसावासनाद्यङ्गचिन्ता दृष्टार्थांशं विभज्य प्रथयितुमपि न प्राक्शमाद्यङ्गवादात्। सत्यं ध्यानाख्यधारावहनमतिदशा त्वन्वहं साधनीया चित्तैकाग्र्येण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यम्।।