अधिकरणसारावली
इतरक्षपणाधिकरणम्
4.1.40 निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव। मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद् भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः।।
4.1.41 नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात् कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः। त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद् भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति।।
4.1.42 सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः। मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगः चित्रे कर्मप्रवाहे फलसमयभिदा ह्याश्रिता सर्वतन्त्रैः।।
4.1.43 आवर्त्या ब्रह्मविद्या त्वसकृदहमिति स्याच्च न स्यात्प्रतीके कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत्सासनः प्रत्यहञ्च। पापे पुण्ये च नाशादिकमथ तु तयोर्भोग्यतारब्धकार्ये कार्यत्वं स्वार्हवृत्तेरिति कथितमिहारब्धशान्तौ च मोक्षः।।