[highlight_content]

अधिकरणसारावली इतरक्षपणाधिकरणम्

अधिकरणसारावली

इतरक्षपणाधिकरणम्

4.1.40    निर्दिष्टास्मा्छरीरादिति नियतिरतो यावदित्यादिशब्दः कर्म प्रारब्धकार्यं कथयति विदुषस्त्छरीरान्तमेव। मैवं प्रारब्धैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद् भूयोदेहस्मृतेश्ान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः।।

4.1.41    नन्वत्रास्मादितीदं वितथमिह पदं स्या्छरीरे न तु स्यात् कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः। त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद् भूतावासं विशिंषन्निममिति मनुर्हेयभावं व्यनक्ति।।

4.1.42    सर्वे जीवास्समानास्स्वत इह विविधं कर्म ानादितुल्यं वैषम्यादिश् दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः। मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगः ित्रे कर्मप्रवाहे फलसमयभिदा ह्याश्रिता सर्वतन्त्रैः।।

4.1.43    आवर्त्या ब्रह्मविद्या त्वसकृदहमिति स्या न स्यात्प्रतीके कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत्सासनः प्रत्यहञ्। पापे पुण्ये नाशादिकमथ तु तयोर्भोग्यतारब्धकार्ये कार्यत्वं स्वार्हवृत्तेरिति कथितमिहारब्धशान्तौ मोक्षः।।

error: Content is protected !!