अधिकरणसारावली
तदधिगमाधिकरणम्
4.1.29 नाभुक्तं कल्पबृन्दैरपि सुपरिहरं कर्म गीतं मुनीन्द्रैः पापाश्लेषप्रणाशश्रुतिरपि परविद्वैभवोक्तिस्ततस्स्यात्। मैवं नाभुक्तमित्याद्यपि फलजनने कर्मणो दार्ढ्यमाह प्रायश्चित्तक्रमेण त्विह परभजनं चोदितं कर्मशान्त्यै।।
4.1.30 निष्कृत्यात्मत्वमस्योदितदुरितसमुन्मूलनस्योपपन्नं नात्र स्वर्गादिनीतिः प्रतिहतिविगमे धीविकासस्स्वतो हि। पापालेपः प्रमादोदितसहनमिति स्थाप्यमाज्ञानुवृत्त्यै नो चेन्न स्याद्गतिर्नाविरत इति गिरो योगिनाञ्च प्रवृत्तेः।।
4.1.31 अश्लेषः कर्मशक्तेरनुदय उदये तन्निवृत्तिर्विनाशः शक्तिस्सा च प्रणेतुस्तदुचितफलकृन्निग्रहानुग्रहात्मा। प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यं नाधर्मस्तस्य तत्स्यादिति खलु हृदयं ग्राह्यमश्लेषवाचः।।
4.1.32 धीपूर्वं तूत्तराघं न सृजति परवित्सर्वदा सावधानो जातं नैमित्तिकैश्च क्षिपति समुचितैराशु भुञ्जीत वा तत्। वृत्रादौ दृष्टमेतन्नियतिविभवतश्चेदिराजादिसिद्धिः युक्ताद्यैवान्यदा वा मुनिरिह मनुते ब्रह्मनिष्ठस्य मुक्तिम्।।