अधिकरणसारावली
प्रतीकाधिकरणम्
4.1.18 नामादिब्रह्मदृष्टावपि तदहमिति प्रत्ययः पूर्ववत्स्यात् ब्रह्मध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः। न ब्रह्मण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वात् अन्यस्मिन्ब्रह्मदृष्टौ परमिह नियतैर्लक्षणैस्तद्ग्रहोऽर्थ्यः।।
4.1.19 आत्मन्यब्रह्मभूते भवतु फलवती कुत्रचिद् ब्रह्मदृष्टिः नैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत्। एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृच्छेत् इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थाम्।।