[highlight_content]

अधिकरणसारावली प्रतीकाधिकरणम्

अधिकरणसारावली

प्रतीकाधिकरणम्

4.1.18    नामादिब्रह्मदृष्टावपि तदहमिति प्रत्ययः पूर्ववत्स्यात् ब्रह्मध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः। न ब्रह्मण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वात् अन्यस्मिन्ब्रह्मदृष्टौ परमिह नियतैर्लक्षणैस्तद्ग्रहोऽर्थ्यः।।

4.1.19    आत्मन्यब्रह्मभूते भवतु फलवती कुत्रिद् ब्रह्मदृष्टिः नैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत्। एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृ्छेत् इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थाम्।।

error: Content is protected !!