अधिकरणसारावली
अध्यक्षाधिकरणम्
4.2.8 प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वात् मध्येऽन्यप्राप्तिक्लृप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तेः। प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैः तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत्स्यात्।।