अधिकरणसारावली
आसृत्युपक्रमाधिकरणम्
4.2.10 अत्रैव ब्रह्म विन्दत्यमृत इह भवत्यागमाद्ब्रह्मनिष्ठो नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्यस्य गत्याद्युशन्ति। नान्यप्राप्त्यर्थमेतत् सगुणसमधिकं कुत्रचिन्मानहानेः तस्मादत्रामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता।।
4.2.11 निश्शेषं भोगहेतौ गलति परविदः कर्मणि प्रायणेऽथो गत्यर्थँ सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात्। मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम्।।
4.2.12 कल्पादौ भूतसूक्ष्््मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि। लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि सांख्यैः प्रगीतं सूक्ष््मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत्।।
4.2.13 तत्त्वज्ञानेन बन्धः किल गलति पुरा नोत्क्रमेणेत्यसारं माता वन्ध्येतिवद्धि स्ववचनविहतिर्जीवतो मुक्तिवादे। मुक्तश्चेत्तत्वबोधात्तनुभृदिह तदा तत्त्वविन्नैष दुःख्येत् मिथ्या दुःखं तदा चेत्कथय तव कदा तस्य सत्यत्वमिष्टम्।।
4.2.14 यं यं भावं स्मरन्तो जहति वपुरिदं देहिनो यान्ति तं तं तस्मादुत्क्रान्तिसाम्यं न घटत इति चेत्तन्न तन्मात्रसाम्यात्। विद्याभेदादिनीत्या भवति विषमता ह्यन्तिमप्रत्ययादौ कॢञ्चित्साधर्म्यवादे न च नियतिमती सर्वथा साम्यसिद्धिः।।