अधिकरणसारावली
तदोकोधिकरणम्
4.2.18 नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः। वाक्यं गन्तुस्तयोर्ध्वं प्रवददमृततां सम्भवादस्तु मैवं विद्यासम्प्रीतहार्दप्रसदनमहसा स्वार्हनाडीप्रवेशात्।।
4.2.19 स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः स्थित्वा हृतपद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः। नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरूपां भित्त्वा तन्मध्यरन्ध्रप्रहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम्।।