अधिकरणसारावली
निशाधिकरणम्
4.2.21 सर्वेषामप्रशस्तं रजनिमरणमित्यह््नि योगी म्रियेत प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्। कर्म प्रारब्धकार्यं ह्यनियतसमयं क्षीयते तावदेवे- त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः।।
4.2.22 यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः। न ह्यत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्।।