अधिकरणसारावली
भूताधिकरणम्
4.2.9 तेजस्येवास्तु युक्तश्श्रिततनुभृदनस्तेजसीत्याद्यबाधात् छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः। विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतपूर्वं प्राचुर्यात्तत्तेदकव्यवहृतिरिति चासूत्रयत्पूर्वमेव।।