अधिकरणसारावली
चतुर्थाध्याये तृतीय: पाद:
अर्चिराद्यधिकरणम्
4.3.1 1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति । मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः।।
4.3.2 शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः। नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्।।
4.3.3 चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् । धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम- प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया यथार्हम्।।