अधिकरणसारावली
आतिवाहिकाधिकरणम्
4.3.7 भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे। स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ।।
4.3.8 यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्। वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः।।
4.3.9 पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्। अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो- रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्।।
4.3.10 भूलोकेशाग्निपूर्वान्कतिचन भविनः केऽपि मन्यन्त एतान् शब्दैक्ये ह्यत्र गुर्वी भवति तदभिमन्त्रन्तराणां प्रक्लृप्तिः। अन्ये चामानवस्य स्वपदगतपरब्रह्मनेतृत्वदृष्ट्या नित्यत्वात् तद्वदेतान्निजगदुरखिलन्नित्यवैकुण्ठभृत्यान्।।