अधिकरणसारावली
कार्याधिकरणम्
4.3.11 वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्। सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्।।
4.3.12 मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात् ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्। वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान् तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः।।
4.3.13 ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या। ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः ब्रह्मोपास्तेश्च लिङ्गं गतिरियमनघा सूत्रिता पूर्वमेव।।
4.3.14 प्रत्यापत्तिप्रकारः प्रतिनियतिमती कर्मयोगादिनिष्ठा विद्याभेदाधिकारः परभजनबलान्मुक्तिविघ्नोपशान्तिः। अन्त्यावस्थाव्यवस्था पृथगयनगतौ विश्रमाप्तिर्विभक्ता साक्षान्मुक्तिः क्रमाद्वेत्यखिलमगतिकैरप्रणोद्यं परैश्च।।
4.3.15 पन्थानं देवयानं तमिममधिगतः पश्चिमे देहपाते तत्त्वस्तोमांस्तमोऽन्तानतिपतति तरत्यापगां तत्र दिव्याम्। दिव्यं देहादि लब्ध्वा जनिलयरहितं याति विष्णोः पदं तत् पर्यङ्कारोहणान्तां भजति बहुमतिं ब्रह्मसंवादधन्यः।।
4.3.16 संघाते नित्यता न क्वचिदपि न पृथिव्यादिभावस्तथात्वे पर्यङ्काद्यैर्न साध्यं किमपि भगवतः पूर्णनिस्सीमशक्तेः। व्याप्तप्राप्त्यर्थमूर्ध्वं गतिरपि विफलेत्यादिकान् हैतुकानां क्षोदिष्ठक्षीबजल्पाञ्छ्रुतिरुपशमयेदद्भुतार्थस्वतन्त्रा।।
4.3.17 भावोऽभावश्च यत्रानुपधि समुदितौ तत्र भावी विरोधः प्रज्ञातव्याप्तरोधेऽप्यधिकनिजबलान्मानतस्स्वार्थसिद्धिः। दृष्टं सर्वेष्टमेतन्न यदि न हि भवेन्मानमध्यक्षतोऽन्यत् बाधोऽध्यक्षे मिथो वा वटदलशयनाद्यद्भुतं चैवमूह्यम्।।
4.3.18 एकत्वं ब्रह्मविद्यापरिषदि सुपथोऽधीयमानस्य तस्मिन् वायौ स्याद्देवलोकश्रुतिरपि वरुणाद्यन्वयो विद्युतोऽधि। नेतारोऽमानवान्ताः परपदगमने तद्विदां सोऽयमध्वा तुर्याध्यायस्य पादे सृतिरधिकरणैरित्थमुक्ता तृतीये।।