अधिकरणसारावली
वरुणाधिकरणम्
4.3.5 कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्। तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः।।
4.3.6 यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत् सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा। यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्।।