अधिकरणसारावली
अभावाधिकरणम्
4.4.17 मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्। स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्रह्मवत्तत्समस्य।।
4.4.18 मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः। इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात् नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः।।
4.4.19 19.नानादेहा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसः तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्। नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना सौभर्यादौ प्रक्लृप्तां गतिमपवदितुं न क्षमं ब्रह्मसाम्यम्।।
4.4.20 देहानां यौगपद्ये बहुषु कथमणुर्धारकोऽस्त्वेष मुक्तः चैतन्यद्वारतश्चेत् सकलमपि सदा धारयेद्व्याप्तबोधः। मैवं मुक्तस्य शक्तिर्नियमितविषया त्विच्छया सर्वशक्तेः प्राक्तादृग्योगशक्त्या बहुतनुभजने कर्मबन्धोऽप्यपेक्ष्यः।।
4.4.21 शक्तिः क्षेत्रज्ञसंज्ञा मुनिभिरभिदधे वेष्टिता कर्मभिस्स्वैः पुंसोऽनंशापि बुद्धिर्बहुविधविकृतिस्स्वीकृतैवं स चास्तु। वालाग्रेत्यादिवाक्यात्तदयमणुरपि स्यादनन्तोऽपि मुक्तौ न स्याज्जैनादिभङ्गे परिहृतविकृतेरैकरूप्यानपायात्।।
4.4.22 जीवस्यैकेकशो हि त्यजनत उदितो वृक्षशाखासु शोषः तस्मादद्वारकं स्यादपगतवरणे मुख्यमानन्त्यमस्मिन् । मैवं शाखासु भोगाश्रयनियतिकरोपाधिनाशः प्रहाणं क्षेत्रादिन्यायतोऽसावभिमतिविरहात् स्यादधीतो जहातिः।।
4.4.23 एको नैकः परस्मात् पृथगपृथगपि स्वस्वरूपेण मुक्तः स्वाभीष्टाशेषभोक्ता स्वयमिति पृथुकक्षीबचोद्ये भ्रमन्ति। तेऽन्वीक्ष्य स्वोक्तिबाधं श्रुतिशतविहतिं तत्तदुक्त्यान्यपर्यात् जैनावष्टम्भदृप्यन्मतिकलहमुचस्सत्पथं संश्रयन्तु।।
4.4.24 सर्वं संकल्पमात्राल्लभत इति समाम्नायते सूत्रितञ्च स्वेच्छातो देहयोगाद्यनियतिकथनं स्यादतः पिष्टपेषः। तन्नान्योन्योपरुद्धश्रुतिगतिनियतिः कामतो़ऽनेकदेह- स्वीकारप्रक्रियेत्याद्यनियतिकथने सूत्रकाराभिसन्धेः।।