अधिकरणसारावली
अविभागेनदृष्टत्वाधिकरणम्
4.4.8 जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्। मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः।।
4.4.9 मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्राह्मणव्याकृतेश्च। द्वेधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं सिद्धे भेदे स्वनिष्ठस्थितिपरिहरणं ह्यत्र सूत्रोपपाद्यम् ।।
4.4.10 पारम्यं यच्च साम्ये श्रुतमिह नहि तत्सर्वथेत्यप्यधीतं ग्राव्णो हेम्नश्च यद्वत्समधरणधृतौ स्यात्तदुक्तिस्तथात्र। एवं तद्देहभावे स्थितवति विविधाबाधिताम्नायभूम्ना ब्रह्मैवेत्यादिवाक्यं प्रथयति समतां तादृगित्यप्यधीतेः।।