[highlight_content]

अधिकरणसारावली ब्राह्माधिकरणम्

अधिकरणसारावली

ब्राह्माधिकरणम्

4.4.11    ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं किं धर्मैरस्वरूपैस्तदिह भवतु िन्मात्ररूपप्रकाशः। इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात् निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्।।

4.4.12    पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ कैवल्यञ्ान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य। मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्ित् स्वनिष्ठं न द्रव्यञ्ागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्।।

error: Content is protected !!