अधिकरणसारावली
ब्राह्माधिकरणम्
4.4.11 ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः। इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात् निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्।।
4.4.12 पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य। मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्।।