[highlight_content]

अधिकरणसारावली संकल्पाधिकरणम् 

अधिकरणसारावली

संकल्पाधिकरणम्

4.4.13    धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्यसङ्कल्पवृत्तेः मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्। इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं न स्यादि्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्।।

4.4.14    विश्वस्यैतस्य जन्मस्थितिलयरना विश्वकर्तुर्यथा स्यात् इ्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्। तस्यानु्छेदवृत्त्या प्रतिकलभिदुरास्ताश् तादृक्प्रवाहाः तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत्।।

4.4.15    प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः। तेने्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां मुक्तस्योक्ता िकीर्षा त्वविहतविषया तारतम्यं न दोषः।।

4.4.16    सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य शेषी श्रुत्यैवोक्तस्स्वराडित्यपि विहतिरतः प्राक्प्रतिष्ठापितानाम्। मैवं नाथेतरान्प्रत्यघविहित इह क्षिप्यते शेषभावो विश्वस्यात्मेश्वरो यः पतिरिति पठितस्तत्पतित्वं त्वबाध्यम्।।

error: Content is protected !!