अधिकरणसारावली
अथ चतुर्थाध्याये चतुर्थ: पाद:
संपद्याविर्भावाधिकरणम्
4.4.1 उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति। स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे- त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्।।
4.4.2 अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्। तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात् मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः।।
4.4.3 नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्। सिद्धं साध्यानुवेधादपि भवति फलं सा त्वविद्यादिभङ्गो यद्वा सिद्धस्य वित्तिस्तदिह न विहतं मुक्तइत्यादिसूत्रम्।।
4.4.4 स्वाकारान्नित्यभातादधिकसुखतया भाति जीवस्तदानीं सिद्धाविर्भावमात्रेऽप्यनुविदुरभिनिष्पत्तिवाचः प्रयोगम्। सङ्कोचात्यन्तहानिर्धिय इयमभिनिष्पत्तिरागन्तुरुक्ता निष्प्रत्यूहस्वरूपोपधिकमपि तदा स्वेनशब्दः प्रवक्ति।।
4.4.5 प्रायस्स्वस्मिन् स्वदेहिन्यनघगुणनिधौ तद्विभूतिद्वये वा दृष्टं यत्स्यात्समाधौ भवति पृषतवत्तद्धि मुक्तानुभूतेः। कृत्स्नं तच्छर्करौघव्यतिकरितसुधासिन्धुवत् स्वादुभूतं तस्मात्स्वात्मप्रकाशे न फलमिति वदन् कूपकूर्मो घृणार्हः।।
4.4.6 मल्ली शुद्धं प्रसूनं जनयति समये रञ्जकोपाधिमुक्ते तद्वन्नाथानुकम्पा फलमुपशमितावग्रहं सूरितुल्यम्। तस्मादागन्तुकेऽपि प्रतिहतिविरहात्तादृशे धीविकासे प्रत्यापन्नस्वदायक्रम इह कथितः प्राप्तसिद्धेः प्रतीचः।।
4.4.7 अर्वाञ्चं मुक्तिभेदं कतिचिदगणयन्् स्वात्ममात्रामनुभूतिं तत्र ब्रह्मानुभूतेर्विहतिरुपधितस्स्यात्स्वतो वेति चिन्त्यम्। सन्ति द्वेधापि दोषास्तत उपचरणान्मुक्तिशब्दोऽत्र युक्तः सालोक्यादिप्रभेदेष्वपि सरणिरियं सावधानैर्विभाव्या।।