[highlight_content]

नयमयूकमालिका – Adhyaya 3 Pada 2

श्रीः

नयमयूकमालिका

 ॥तृतीयाध्यायस्य द्वितीयः पादः॥

एवं वैराग्यपादेन संसारस्य क्षयिष्णुत्वसातिशयत्वादिना इह परत्र तृतीयस्थाने च परिभ्रमणेन च दुःखरूपता निरूपिता। अवरोहणे च आकाशादिदेवताभावेन ततः पार्थक्येन वा आकाशादिशरीरकत्वमस्ति चेत् तेन सुखानुऽस्तीति स्यात्। तद्वारणाय मूर्च्छितप्रायाणान्तेषां संश्लेषमात्रामिति निरूपितम्। व्रीह्याद्योषधिभावेन जन्मास्ति चेत् तत्तदभिमानिदेवतारूपत्वप्राप्त्या सुखानुभवोऽस्तीति स्यात्। वनस्पत्यादीन् प्रकृत्य हि पुराणेषु पठ्यते ‘पत्रपुष्पफलैर्नित्यं छाययाचैव शाखिनः। परेषामुपयुज्यन्ते तद्धि तेषाम्महत्तपः॥ तेषां दया सदा कार्या भक्तिः कार्या तथैव च। यस्त्वेषां भक्तिमान्नित्यं तस्यास्य किल देवताः॥ सर्वान्कामान्प्रयच्छन्ति प्रसीदन्ति च सर्वदा॥ वानस्पत्ये तथा लोके सर्वेऽप्येते हि शाखिनः। शरीरवत्यस्तिष्ठन्ति देवता नात्र संशयः॥ द्रुमगोपायितारञ्च परलोकमुपागतम्। हृद्येन गीतवाद्येन रमयन्त उपासत’ इत्यादि। अतस्तत्प्रयुक्तसुखांश वारणाय ओषधिवनस्पतिजन्मापि निवारितम्। एवं संसारस्य दुःखभूयितष्ठत्वे प्रतिपादिते परब्रह्मप्रेप्सोत्पादनाय तस्य महिमा निरूपणीयः। अन्यथा सुखलवयुक्ते संसारे वैराग्यं दृढीकृतं नस्यात्। अतस्तस्य स्वप्नाश्चर्यप्रदर्श- यितृत्वादिसकलकर्मफलप्रदत्वान्तो महिमाऽनेनोभयलिंगपादेन निरूप्यते-

संध्ये सृष्टिराह हि ॥1॥

निर्मातारञ्चैके पुत्रादयश्च ॥2॥

मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तव्स्वरूपत्वात् ॥3॥

पराभिध्यानात्तु तिरोहितं ततोह्यस्य बंधविपर्ययौ ॥4॥

देहयोगाद्वा सोऽपि ॥5॥

सूचकश्वहि श्रुतेराचक्षतेच तद्विद: ॥6॥

जागरावस्थावृत्तांतमधिकृत्य प्रथमपादः प्रवृत्तः। इहाधिकरणे स्वप्नावस्थावृत्तान्तो विचार्यते। ‘न तत्र रथानरथयोगा नपंथानो भवन्ति अथ रथान् रथयोगान् पथस्सृजते न तत्रनन्दा मुद: प्रमदोभवन्ति अथानन्दामुद: प्रमुदस्सृजते न तत्र वेशन्ताः पुष्करिण्यस्स्रवन्त्योभवन्ति अथ वेशन्तान् पुष्करिण्यस्स्रवन्त्यसृजते सहिकर्ते’ ति। तत्र संशयः- किं जीवकर्तृकेयं सृष्टिः, उत ईश्वरकर्तृकेति। जीवकर्तृकेति तावत्प्राप्तं। सहिकर्तेति श्रवणात्। तत्र तत्पदस्य ‘पाप्मन आनन्दांश्च पश्यती’ ति प्रकृतस्वप्नद्रष्ट्टजीवपरामर्शित्वात्। न च तस्य स्वप्नप्रपञ्चस्रष्ट्टत्वासम्भवः, तस्य प्रजापतिवाक्योदितसत्य- संकल्पत्वादिमत्वात् जागरदशायां तिरोहितस्यापि तस्य स्वप्ने मुक्ताविवाविर्भावोपपत्तेः। न चैतदयुक्तं पूर्वं पश्चाद्वाऽसतां रथानां रथहयानां रथगमनोचितानां राजपथनांच स्वप्नकालेमात्रे भवनवत् सत्यसङ्कल्पत्वस्यापि तत्कालमात्रएवाविर्भावोपपत्तेः। न चैवं सति प्रबुद्धस्य रथादीनद्राक्षमितिवत् रथादीनस्राक्षमित्यपि परामर्शस्स्यादिति वाच्यम्। तदंशे परामर्शादर्शनेन स्वप्नार्थस्रष्ट्टत्वानुभवस्य शैशवदशानुभवस्येव संस्कारानाधायकत्वकल्पनात्। न च जीवस्य स्वप्नार्थस्रष्ट्टत्वे सुभसूचकानेव सृष्ट्वा सपश्येत् न त्वशुभसूचकानिति वाच्यम्। तदानीं स्वप्नत्वाशुसूचकत्वाननुसंधानेन तत्स्रष्ट्युपपत्तः। न च तथापि भयहेतुस्वाप्नचोरव्याघ्राद्यनिष्ट- स्रष्ट्टत्वं न स्यात्, स्वप्न एव तदनिष्टत्वानुसंधानप्रयुक्तभयकंपधावनादितर्शनेन तदननुसंधानकल्पनायोगादिति वाच्यम्। सृष्टिदशायामननुसंहितस्य अनिष्टत्वस्य सृष्ट्यनन्तरमनुसन्धानमितिकल्पनोपपत्तेः। स्वप्ने चिरातितपितृपितामदाहीन् पश्यतां तदानीं तदतीतत्वमननुसंदधानानां स्वप्नेएव पुनः क्षणांतरे कथमेते चिरातीता- द्दश्यन्त इति तदनुसंधानदर्शनात्। ‘सहिकर्ते’ ति स्वप्नसृष्टेर्जीवकर्तृत्वश्रुत्यनुसारेणैव तावत्कल्पनौचित्यात्। किं च ‘कठवल्लीषु’ ‘य एषसुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण’ इति जीवः कामानां स्रष्टाम्नायते। कामास्तत्र पुत्रादयः। पूर्वत्र ‘सर्वान् कामान छन्दतः प्रार्थयस्व। शतायुषः पुत्रपौत्रान् वृणीष्वे’ ति पुत्रादीनां कामशब्देन परमृष्टत्वात्। अतः पुत्रादिसंबंधलिंगात् कठवल्लीषु जीवः स्वप्नसृष्टिकर्ता प्रतिपाद्यत इति निश्चयेन तदैकार्थ्यादिहापि स एवतत्कर्ता प्रतिपाद्यत इति युक्तम्। तस्मात् जीवकर्तृकैव स्वप्नसृष्टिरिति। एवं प्राप्ते सिद्धान्तः– सर्वेश्वर एव तत्कर्ता। अत्याश्चर्यरूपा हि स्वप्नसृष्टिः नित्याविर्भूतसत्यसङ्कल्पत्वादिगुणात्तत एवानुपपद्यते। जीवस्य सत्यसङ्कल्पादिसत्वेऽपि तस्य सर्वेश्वरसङ्कल्पादनादिकर्मपरंपरारूपाविद्यया देहाचित्प्रकृतियोगाभ्याञ्च तिरोहितत्वात्। तिरोधायकसत्वेच स्वप्नदशायामप्यभिव्यक्त्यसम्भवात् परमेश्वरस्य स्वप्नसृष्टिकर्तृत्व एव च रथादिसृष्ट्युक्त्य- नन्तरं स हि कर्तेति हेतूपन्यासस्सङ्गच्छते। स्वप्नद्दघ्यस्मिन् देशे रथं पश्यति तदानीं तत्र स्थितोऽन्यस्तं न पश्यति, स्वप्नद्दगपि प्रबोधानन्तरं तत्र गतस्तन्नपश्यति, न वा तस्यान्यत्र नयनचिह्नानि च पश्यति कथमेतादृशाश्चर्यसहस्रशालिनी स्वप्नसृष्टिर्भवतीत्या कांक्षायांहि स हि कर्तेति तत्र हेतुरुच्यते। सकलप्रपञ्चनाटकसूत्रधारः सर्वेश्वरः खलु कर्ता किं किमाश्चर्यं स्रष्टुं न शक्नुयादिति तदभिप्रायः। ‘य एष सुप्ते’ ष्विति मन्त्रोऽपि सर्वेश्वरविषयः। तदनन्तरं ‘तदेव शुक्रन्तद्ब्रह्म तदेवामृतमुच्यते। तस्मिन्लोकाः श्रितास्सर्वे तदु नात्येति कश्चने’ त्याम्नानात्। अतः ‘कामं काम’ मिति णमुलन्तं सङ्कल्पयसङ्कल्प्येत्येवमर्थे योज्यं। एवं परमेश्वरकर्तृकत्व एव च स्वप्ने तैलपानतैलावगाहनमांसभक्षणमध्वशनैक पुण्डरीकधारणादीनामशुभसूचकानां तदानीन्तनानिष्टकारकाणां चोरव्याघ्रादीनां च सृष्टिरक्लेशेन उपपादिना भवति। सर्वेश्वरः तत्तत्कर्मानुसारेण जागर इव स्वप्नेऽपि पदार्थविशेषात् सृष्ट्वा तत्प्रयुक्तसुखदुःखान्यनुभावयतीत्युपपत्तिसत्वात्। अत्रेदं विचारणीयं- यत्र देशे स्वप्नद्दक् रथादीन् पश्यति तत्र स्वयं गत्वा पश्यति उत अपवरके शयान एवेति यांश्च पश्यति कथं देशकालवस्तुविपर्यासेन द्दश्यन्त इति च देशान्तरङ्गत्वेति श्रुतिरेवाह- ‘प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादवरश्चरित्वा। स ईहते अमृतो यत्र कामं हिरण्मयः पुरुष एवहंस’ इति हि श्रूयते। हिरण्मयः प्रकाशरूपत्वादुज्वलः। एक एव हंति इह परत्र च गच्छतीति एकहंसः। ननु काश्यां रात्रावर्गळिते अपवरके शयितः स्वप्ने स्वशरीरणैव उत्तरांदिशं प्रस्थितः मुहूर्वमात्रेण काञ्चीं प्राप्य तत्र वस्तुतो रथादिमत्सु देशेषु रथादीनपश्यन्तं अन्यत्र तान्पश्यन्तं तस्यामेव बहुतिथं कालमतिवाहयन्तमात्मानमनुभवन्नेव यथापूर्वं अर्गळितापवरकशयितेन स्वशरीरेण शनानन्तरं मुहूर्तमात्रेण प्रतिबुध्यत इत्यनुभवसिद्धम्। कथमेतत्सर्वं सङ्घटनीयमिति चेत् उच्यते- परमेश्वरेण स्वप्ने सृष्टं यथाऽनुभवं पूर्वशरीरसद्दशं विसद्दशं वा शरीरं पूर्वशरीरविलक्षणमिति न तन्निर्गमेन कवाटोद्धाटनापेक्षा, नापि योजनशतप्राप्यदेशप्राप्तौ बहुकालापेक्षा, तदानीमीश्वरसृष्टै: स्वप्नद्दगेकानुभाव्यैरादित्यगताद्युपाधिविशेषैरवच्छिन्नानां दिक्कालानां तत्तत्स्वप्नदृगपेक्षया दिंगतरत्वादिवसत्वादिव्यवस्था, मार्गगतानां प्राप्यदेशगता नाञ्च जाग्रद्दशादृश्यवस्तूनामुपलंभाभावः, स्वाप्नचक्षुरादीनां स्वाप्नार्थमात्र ग्रहणयोग्यत्वात् गजादिमत्सु देशेषु रथाद्युपलंभः, स्वप्नजागरार्थानां जलालोकपवनन्यायेन मिथः प्रतिघातकत्वाभावात् मुहूर्ताभ्यन्तरे गणरात्रादिवाहं देवादिकालोपाधिभ्यो मनुष्यादिकालोपाधीनामिव जागरकालोपाधिभ्यः स्वप्नकालोपाधीनां सूक्ष्मत्वतारतम्यादिति सर्वमेतत् स्वप्नाश्चर्यप्रदर्शयितु स्सर्वेश्वरस्य महिम्ना उपपद्यते।

संग्रहकारिके।

कर्तारस्स्युः प्राणिनस्स्वाप्नसृष्टेर्जीवात्मानस्तत्र कर्तासहीति। प्राजापत्यात्सत्यसंकल्पतैषां वाक्यत्सिद्धेत्यत्र नायुक्ततास्ति।

व्यक्तदानीं नयत्सा यदनभिमतसन्दृष्टिकोदर्कदानां

 स्वप्नेर्थानांच सृष्टिस्तदिह न घटते कर्तृता प्राणभाजाम्।

तस्मादीशोत्र कर्ता श्रुतिषुच पठितस्सोयमाकालिकार्थान्

एतानाश्चर्यभूतान् सृजति बहिरितस्वप्नदृड्मात्रदृश्यान्॥

 इति संध्याधिकरणम् ॥1॥

तदभावो नाडीषु तच्छ्रुतेरात्मनिच ॥7॥

अतः प्रबोधोऽस्मात् ॥8॥

स्वप्नानंतरं सुषुप्तः परीक्ष्यते। इदमाम्नायते ‘अथ यत्रैतत्सुप्तस्समस्तस्संप्रसन्नस्स्वप्नं न विजानाति आसु तदा नाडीषु सुप्तो भवती’ ति। तथा ‘अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हितानामनाड्यो द्वासप्ततिस्सहस्राणि ह्यदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीततिशेत’ इति। तथा ‘यत्रैतत्पुरुषस्स्वपिति नाम सतासोम्य तदा सम्पन्नो भवति सति संपद्य न विदु’ रिति। एवं नाड्यः पुरीतद्धृदयाकाशरूपं ब्रह्मचेति त्रिषु सुषुप्तिस्थानत्वेन श्रूयमाणेषु किमेषां विकल्पस्समुच्चयोवेति एकप्रयोजनवत्वप्रयोजनभेदाभ्यां संशये पूर्वपक्षः। प्रत्येकं सप्तमीभिः नैरपेक्ष्यावगमात् अणोर्जीवस्य युगपत् सुषुप्त्ययोगाच्च विकल्पः। यद्यपि ‘सति संपद्य न विदु’ रित्यत्र सत्पदेन केवलं ब्रह्मोक्तं, तथाऽपि अपरिच्छिन्नब्रह्मसंबन्धस्य नित्यमेव सत्वात् विशिष्य सुषुप्तिदशायां तत्संपत्त्युक्त्ययोगेन किंचित्प्रदेशावच्छिन्नब्रह्म संपत्तिविषयत्व कल्पनावश्यंभावेसति ‘यत्रैष एतत्सुप्तोऽभूत् य एष विज्ञानमयः पुरुषस्तदैषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेत’ इति श्रुत्यन्तरद्दष्टं हार्दाकाशरूपमेव ब्रह्माधिकरणं पर्यवस्यति। तस्मात्र्त्रयाणां विकल्प इति। सिद्धान्तस्तु- प्रासादखट्वापर्यङ्कन्यायेन तेषां प्रयोजनभेदेन समुच्चयसंभवात् ‘सत आगम्य न विदुरि’ ति सुषुप्तजीवानां ब्रह्मणस्सकाशादेव प्रबोधस्य नित्यवदाम्नानाच्च नाष्टदोषदुष्टो विकल्पो युक्तः। व्रीहियवयोस्त्वगत्याविकल्पः। यथाहुः–’एवमेषोऽष्टदोषोऽपि यद्व्रिहितववाक्ययोः। विकल्प आश्रितस्तत्र गतिरन्या न विद्यत’ इति। प्राप्तप्रामाण्यपरित्यागः, अप्राप्तप्रामाण्यस्वीकारः, परित्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरत्यागश्चेति व्रीहिशास्रे यवशास्रे च प्रत्येकं चत्वारो दोषा इत्येवं विकल्पेऽष्टौ दोषाः प्रसिद्धाः। एवमष्टदोषप्रसिद्धिः व्रीहियव- रूपप्रसिद्धोदाहरणे। इह नाडीपुरीतद्ब्रह्मणां त्रयाणां विकल्प इति पूर्वपक्षे तु एकैकत्र चत्वारो दोषा इति द्वादशादोषाः प्रसज्यन्ते। तथा हि- एकस्यां सुषुप्तौ नाड्यां शयने पुरीतद्वाक्ये ब्रह्मवाक्ये च प्रत्येकं प्राथमिकौ द्वौ द्वौ दोषौ। सुषुप्त्यन्तरे पुरीततिशयने नाडीवाक्ये प्राथमिकौ द्वौ दोषौ। पुरीतद्वाक्ये तु उपरितनमपि दोषद्वयमिति चत्वारो दोषाः। पुनस्सुषुप्त्यन्तरे ब्रह्मणि शयने ब्रह्मवाक्येऽपि उपरितनं दोषद्वयं सुषुप्त्यन्तरे नाड्यां शयने नाडीवाक्येऽपि उपरितनं दोषद्वयमिति स्वापचतुष्टयेन द्वादशदोषाः प्रादुष्युः। व्रीहियवशास्रयोस्तु प्रयोगत्रयेण अष्टौ दोषा इति विशेषः। ननु अनेनाधिकरणेन कः परब्रह्मणो महिमविशेषस्सिध्यति सुषुप्तजीवविश्रांतिस्थानत्वगुणनियमइति चेत् मुक्तिसंसारयोरविशेषेण ब्रह्माश्रितस्य जीवस्य नाड्यां पुरीततिवा कदाचित्सुषुप्तिरिति पूर्वपक्षेऽपि तत्तदवच्छिन्नब्रह्मणस्तद्विशरांतिस्थनत्वानपायात्॥ उच्यते- दहरविद्यायां सुषुप्तौ दहराकाशरूपं ब्रह्म प्राप्तस्य सकलपाप्मास्पर्शश्श्रूयते ‘सर्वे पाप्मानोऽतो निवर्तन्ते अपहतपाप्माह्येष ब्रह्मलोक’ इति। एवं ब्रह्मणस्सुषुप्तजीवगतसकलपापास्पर्शहेतुत्वरूपो महामहिमा नियतस्सिध्यति ‘तन्नकश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवती’ ति नाडीवाक्यगत- तेजश्शब्दोऽपि नाडीद्वारा प्राप्यं ब्रह्माचक्षीतेति ततोऽपि तस्य महिमा नियतस्सिध्यति। अन्यथा नाडीवाक्ये शेषो नाडीस्तुतिपर एव स्यादिति सुषुप्तजीवसकलपापास्पर्शहेतुत्वस्य नाडीसाधारण्यापत्त्या समहिमा परब्रह्मासाधारणो न सिध्येत्॥

 संग्रहकारिके॥

नाड्यादीनि सुषुप्तावनपेक्षत्वाद्विकल्प्येरन्।

जीवस्याणोस्रिषु युगपदवस्थितेरयोगाच्च॥

प्रासादखट्वापर्यङ्कन्यायात्तेषां समुच्चयः।

तत्सम्भवे हि स्वीकार्यो न विकल्पोऽष्टदोषभाक्॥

इति तदभावाधिकरणम् ॥2॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥१॥

सुप्तस्य प्रबोधश्चिंत्यत इति संगतिः। किंसुप्तादन्यः प्रबोध उत्तिष्ठति उत स एवेति सुषुप्तौ सकलोपाधिनिर्मोक्षास्तित्वनास्वित्वाभ्यां संशये पूर्वपक्षः। अन्य उत्तिष्ठति। सुषुप्तस्य ‘तंनकश्चनपाप्मा श्पृशती’ ति सर्वपापास्पर्शोक्त्या सर्वोपाधिविनिर्मोक्षवगमात् बृहदारण्यके सुषुप्तिं प्रकृत्त्य ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णोहितदासर्वान् शोकान् हृदयस्य भवती’ ति तस्य पापोत्तीर्णत्वतन्मूलकसर्वदुःखोत्तरणयोः” श्रवणात्। तत्रैव ‘सयथा कुमारोवा महारीजोवा महाब्राह्मणोवातिघ्नीमानंदस्य गत्वाशयीतैव मेवैष एतच्छेत’ इति ‘तद्वा अस्यैतदतिच्छंदा अपहतपाप्माभयं रूपं तद्यथा प्रियया संपरिष्वक्तो नबाह्यं किंचन वेदनांतरमेवमेायं पुरुष: प्राज्ञेनात्मना संपरिष्वक्तो नबाह्यं किंचन वेदनांतरमि’ ति सुषुप्तौ मुक्ताविव ब्रह्मसंपत्त्या निरतिशयानंदश्रवणाच्च। अतिघ्नीं अतिशयेनदुःखहन्त्रीमानंदस्य दशां प्राप्येत्यर्थः। तस्मादुपायसहस्रेणापि मुक्तस्येव ब्रह्मप्राप्तस्य पुनरावृत्तिरुपपादयितुमशक्येत्यन्य एवोत्तिष्ठतीत्यभ्युपगन्तव्यम्। यद्येवंसति कर्मानुस्मृतिशब्दविधिविरोधस्स्यादित्यपरितोषस्तदा सुषुप्तस्य सत्संपत्तिरेव त्यक्तव्येति। एवं प्राप्ते ब्रूमः। सुषुप्तएवोत्तिष्ठति। नान्यः। कर्मानुस्मृतिशब्दविधिभ्यः। सुप्तेः पूर्वं पुण्यपापरूपं तत्त्वज्ञानात्प्रापक्तेनैव हि भोक्तव्यं। योऽहं सुप्तः सोऽहं प्रतिबुद्धोऽस्मीति प्रत्यभिज्ञा च द्दश्यते। ‘त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पंतगो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ती’ ति सुषुप्तिप्राग्रूपस्यैवानुवृत्ति- राम्नायते। एते विरुध्द्येरन्। सुषुप्तस्य मुक्तत्वे मोक्षार्थाश्च विधयोऽनर्थकास्स्युः। कुंभकर्णवत् सुषुप्त्यनुवृत्तिरेव प्रार्थनीयास्यात्। का तर्हि सत्संपत्त्यानन्दानुभववचनयोर्गतिः। नेयमात्यंतिकी सत्सम्पत्तिः। देहेन्द्रियकर्माविद्यातिरोधानसत्त्वात्। नाप्यानन्दानुभवोऽस्ति। इन्द्रियाणामुपरतत्वेन विषयभोगाभावात् तिरोधायकसत्त्वेन ब्रह्मानन्दानुभवाभवाच्च। अत एव सुषुप्तं प्रकृत्य श्रुतिः- ‘नाहखल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामी’ ति। किन्तु जागरे करणकळेबरव्यापारजटिले श्रान्तस्य विश्रमस्थानं हृदयाकाशरूपं परंब्रह्मप्राप्तस्य सर्वविधशरीरेन्द्रियव्यापारोपरत्या श्रांत्यपनयोभवतीत्येतावान्विशेषः। ‘स यथा शकुनिः सूत्रेण प्रबद्धो दिशंदिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेवेदं मनोदिशंदिशं  पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणवन्धनं हि सोम्य मन’ इति सौषुप्तिकसत्सम्पत्तिवाक्यशेष- दर्शनात्। अत्र मनः प्राणशब्दौ जीवब्रह्म परौ। पाप्मा संस्पर्शोक्तिस्तु दिव्यक्षेत्रानुप्रवेशे तं गृहीतवतः पिशाचस्येव सुषुप्तौ हृदयाकाशरूपब्रह्मानुप्रवेशे पाप्माधिकरणस्यान्तः करणस्यान्तः बहिरेवावस्थानमित्येतदभिप्राया योज्या। तस्मात् सुषुप्त एवोत्तिष्ठति। एवं सत्येव ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विंदन्त्यनृतेन हि प्रत्यूढा’ इति श्रुतिरपि सङ्गच्छते॥

 संग्रहकारिका॥

मुक्तिवदेव सुषुप्तौ ब्रह्माप्तिस्तस्य न पुनरुत्थानम्।

तस्मादन्योत्थितिरिति तुच्छमनुस्मरणकर्मविधिशब्दात्॥

इति कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥3॥

मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥10॥

जीवावस्थानप्रसङ्गादिदमधिकरणं। मूर्च्छा जागरस्वप्नसुषुप्तिमरणरूपप्रसिद्धावस्थास्वन्तर्भूता उत तद्भिन्नेति भेदकसद्भावासद्भावाभ्यां संशये यद्यप्येषा विशेषविज्ञानाभावान्नजागरः स्वप्नो वा। नापि सुषुप्तिः प्रसन्नवदनत्वश्वासभरितत्वयोरभावात्। तथाऽपि सर्वेषामिन्द्रियाणां प्राणवायोश्च व्यापारादर्शनात् मरणमेवैषेति पूर्वः पक्षः। कराळवदनत्वाद्याकारवैरूप्यात् सूक्ष्मश्वाससञ्चारवत्वान्नमरणं, किं तुवृक्षाग्रपतनादिनिमित्तसौक्ष्म्यापन्नप्राणयक्तापि चिकित्साद्यभावे मरणपर्यन्तामरणायार्धसम्पत्तिरूपा ततोपि भिन्नेति सिद्धान्तः॥

संग्रहकारिका॥

नांतर्भूता जागरादित्रये चे दज्ञानाद्यैस्तर्हिमूर्च्छामृतिस्स्यात्।

नैतत्सारं किंचनश्वासद्दष्टेर्मर्तुं प्रक्रम्यैव मध्येस्थिततस्स्यात्॥

इति मुग्धाधिकरणम् ॥4॥

नस्थानतोपि परस्योश्रयलिङ्गं सर्वत्रहि ॥11॥

भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥12॥

अपिचैवमेके ॥13॥

अरूपवदेव हि तत्प्रधानत्वात् ॥14॥

प्रकाशवच्चावैयर्थ्यात् ॥15॥

आह च तन्मात्रं ॥16॥

दर्शयतिचाथो अपि स्मर्यते ॥17॥

अतएवचोपमा सूर्यकादिवत् ॥18॥

अंबुवदग्रहणात्तु न तथात्वं  ॥19॥

वृद्धिह्रासंभाक्त्वमन्तर्भावादुश्रयसामञ्जस्यादेवं दर्शनाच्च ॥20॥

प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥21॥

तदव्यक्तमाह हि ॥22॥

अपि संराधने प्रत्याक्षानुमानाभ्यां ॥23॥

प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥24॥

अतोनन्तेन तथा हि लिंगं ॥25॥

पूर्वपादे जीवस्य वैराग्यहेतु गतागतभ्रमणरूप जागरवृत्तांत प्रतिपादनेनास्मिन्पादे परब्रह्मणो विचित्रस्वप्नार्थ स्रष्ट्टत्व सुषुप्तविश्रांतिस्थानत्वरूपमहिमप्रतिपादनेन च मूर्च्छार्याः मरणार्धसंपत्तिरूपत्व प्रतिपादनद्वारा मूर्च्छामरणावस्थास्वरूप विशदीकरणेन च जीवस्यजागराद्यवस्थासुयेदोषाव्यंचितास्ते तदंतर्यामिणोपि भवन्तीति उतनभवंतीति जीवदोषहेतूनां कर्मणामीश्वरेपि सद्भावसद्भावभ्यां तस्मिन्कर्माभावेपि तेषां शरीरवस्थिति प्रयुक्तत्वतदभावाभ्यां च संशयः। एवं तस्य समस्तकल्याणगुणात्करत्वं भवति नवेति नेतिनेतीत्यादि श्रुतिविरोधाभाव तत्सद्भाभ्यां च संशयः। एवमुभयलिङ्गत्वासंशये पूर्वपक्षः। हेयेदेवमनुष्यादि शरीरे स्थितिर्दुःखजननीति जीवे संप्रतिपन्नं कथमंतर्यामिण्यपि सा दुःखजननी न भवेत्। अंतर्यामी निरस्तसम्स्त- हेयस्समस्तकल्याणगुणाकरश्चेति श्रुत्यादिभिः प्रमित इति चेत् किं जीवस्तथा प्रजापतिवाक्येन न प्रमितः। अथ जीवस्य निर्दोषकल्याणगुणाकरत्वं कर्माविद्यादितिरोहितमिति चेत् तुल्यमन्तर्यामिण्यपि सर्वशरीरकतया सर्वशब्द-वाच्यस्य तस्य ‘ब्राह्मणो बृहस्पतिसवेन यजेतराजा राजसूयेन यजेत न ब्राह्मणस्सुरां पिबेन्न परदारान्गच्छे’ दित्यादि विधिनिषेधवाक्यगतब्रह्मक्षत्रियादिशब्दवाच्यस्य विधिनिषेधाधिकारानिवारणात्। मा भूद्वा ब्रह्मणः कर्म तथाऽपि देहे स्थित्वा तत्प्रयुक्तदोषाः स्युः। ननु संभोगप्राप्तिरितिचेदित्यादिष्वक्रमवश्यस्य ब्रह्मणः स्थानसम्बन्धप्रयुक्तदोषासंस्पर्श उक्तः। सत्यं तदुक्तिरेवाक्षिप्यते। कर्माण्यपि देहसम्बन्धमापादयन्ति, दोषजननानि भवन्तीति तदेतद्देहयोगाद्वासोऽपीतिपूर्वाधिकरणसूत्रेण दर्शितम्। अतो देहसम्बन्धाविशेषे कर्माभावोक्त्या किं समाहितं स्यात्। मलमूत्रमांसपूयशोणितादिकर्दमितेदेहे रौरवइवावस्थानस्यादिहेयत्वात्। नचान्तर्यामिणश्शरीरेऽवस्थानस्य स्वेच्छाधीनत्वेन कश्चन विशेषः। स्वयमेव स्वकरं छिंदतोऽपि तत्प्रयुक्तदोषापरिहारादिति। एवं निर्दोषत्वं तावन्नसम्भवति। नेति नेतीत्यादिनिर्विशेषश्रुतिविरोधात् कल्याणगुणवत्त्वमपि तस्य न सम्भवति। तस्मान्नोभयलिङ्गं ब्रह्मेति। एवं प्राप्ते सिद्धान्तः। स्वतो निर्दोषस्य ब्रह्मणस्तत्र तत्र स्थानतोऽपि दोषा न प्रसज्यन्ते श्रुतिषु स्मृतिषु च तस्य निरस्तनिखिलदोषत्वकल्याणगुणाकरत्व लक्षणेभयलिङ्गत्व प्रतिपादनात्। श्रूयतेहृपहतपाप्मा विरजो विमृत्यु रित्यादि। स्मर्यते च- ‘समस्तहेयरहितं विष्णवाख्यं परमं पदं। समस्तकल्याणगुणाकरोऽसावित्यादि। न च देहावस्थितितौल्ये जीववद्दोषाः कथं न प्रसज्यन्त इति वाच्यम्। एतच्छङ्कापरिहारार्थमेवान्तर्यामिब्राह्मणे पृथिव्यादिपर्यायेषु प्रतिपर्यायं  ‘एषत आत्मान्तर्याम्यमृत’ इति अमृत्वोक्तेः। ततश्च तत्र तत्र स्थित्वा नियमनं कुर्वतोऽप्यंतर्यामिणो न तत्सम्बन्धप्रयुक्ता दोषा भवन्ति।न हि कारागृहे चोरस्येव तत्क्लेशनार्थं तत्र स्थितस्याधिकारिपुरुषस्य बन्धनाडनादिदोषा भवन्ति। न च तथाऽपि मलमूत्रादिपूरित देहान्तरवस्थानं स्वयमेव साक्षात् कुर्वतोंतर्यामिणस्तत्प्रयुक्ता दोषा न भवन्तीति कथं प्रत्येतव्यमिति चेत्। उत्यते। वस्तूनां दोषावहत्वं न तत्तद्वस्तुस्वभावप्रयुक्तम्। देशकालपुरुषादिभेदेनैकस्यैव वस्तुनस्सुखदुःखोभयरूपत्वदर्शनात्। किंतु तत्तत्कर्मविशेषाधीनं। तथोक्तं भगवता पराशरेण— ‘नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम। वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च ॥ कोपायच यतस्तस्माद्वस्तुवस्त्वात्मकं कुत’ इति। यदुक्तमीश्वरस्यापि कर्मवश्यता न निवार्येति। तन्न। सर्वज्ञस्य तस्यास्मदादीनामिवेदं कर्म मया कर्तव्यमिति विधिभिर्ज्ञाप्यत्वासम्भवेन सर्वप्रेरकस्य तस्य तत्प्रेर्यत्वासम्भवेन च तत्र कर्मवश्यतोक्तर्निरालम्बनत्वात्। एवमीश्वरस्य कर्माभावदेवैकदैहस्थितयोरपि जीवेश्वरयोर्भोगतदभावव्यवस्थां दर्शयति ‘द्वासुपर्णा सयुजा सखाये’ त्यादिमंत्रे। तस्माद्देहावस्थित्या रूपवदपि ब्रह्म रूपरहिततुल्यमेव। ‘आकाशो वै नामे’ त्यादिश्रत्या सर्वानुप्रविष्टस्यापि तस्य नामरूपकार्यास्पर्शेन केवलं निर्वोढृत्वप्रतिपादनात्। नन्वस्त्वेवं निर्दोषत्वं ब्रह्मणः कल्याणगुणवत्त्वं कुतः ‘सत्यं ज्ञान’ मिति हि मंत्रस्तस्य ज्ञानैकरुपत्वमाह। मैवं। अयं हि मत्रस्तस्य ज्ञानरूपत्वमात्रं वदति नतु गुणान्तरं वारयति। अतस्सत्यं ज्ञानमित्यतस्तस्य ज्ञानरूपत्ववत् कल्याणगुणवत्वमपि श्रुत्यन्तरादभ्युपेयं। अत एव वेदान्तगणस्तस्य निरस्तनि- खिलदोषत्वं समस्तकल्याणगुणाकरत्वं चेत्युभयमपि दर्शयति। ‘निष्कळं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवत’ मित्यादिकः। स्मर्यते च तथा ‘सर्वज्ञस्सर्वदृत्सर्वशक्तिज्ञानबलर्द्धिमान्। अन्न्यूनश्चापि वृद्धिश्च स्वाधीनोऽनादिमान् वशी॥ तन्त्रीद्वेषभयक्रोधकामादिभिरसंयुत’ इत्यादि। एवं देहे स्थितावपि तत्प्रयुक्तदोषभाक्त्वाभावादेवशास्रे जलपदर्पणादि प्रयुक्तदोषास्पृष्टजलसूर्यद्युपमा निबध्यते। ‘आकाशमेव हि यथा घटादिषु पृथग्भवेत्। तथाऽऽत्मैकोह्यनेकस्थो जलाधारेष्विवांशुमान्॥ एक एव हि भूतात्मा भुते भूते व्यवस्थितः। एकधा बहुधाचैव द्दश्यते जलचंद्रव’ दिति। ननु वस्तुतस्सूर्यो जले नप्रविष्टो भ्रांत्या तत्रस्थ इव प्रतीयते। अन्तर्यामि तु वसुतो देहेस्थित इत्यस्य वैषम्यमिति चेतूसत्यं। दोषास्पर्शमात्रे दृष्टान्तोऽयं जलवृद्धिह्रासादिप्रयुक्तदोषास्सूर्य इव देहप्रयुक्तदोषा नान्तर्यामिणि भवन्तीति। एवं दोषस्पर्शमात्रं हि द्दष्टान्तेन निवर्त्यते। दोषास्पर्शमात्रविवक्षाच ‘आकाशमेकं हि यथे’त्यादि श्लोके घटीदिषु वस्तुतोऽवस्थितस्याकाशस्य जलाधारेषु वस्तुतोऽनवस्थितस्य सूर्यस्यचेति द्विविधस्य भवति। तस्य सूर्याकाशोभयानुगतत्वात्। विवक्षितांशसाम्यमात्रेण च दृष्टान्तीकरणं। लोकेऽपि सिंहो माणवक इत्यादिव्यवहारो दृश्यते। सर्वात्मना साम्यं तु क्वचिदपि न सम्भवति। तस्मान्निरस्तनिखिलदोषं समस्तकल्याणगुणास्पदं चेत्युभयलिङ्गं ब्रह्म। स्यादेतत् बृहदारण्यके ‘द्वेवावब्रह्मणोरूपे मूर्तंचैवामूर्तंचे’ त्यादिना स्थूलसूक्ष्मात्मकं सर्व प्रपञ्चं ब्रह्मणोरूपत्वेन परामृश्य तस्य हैतस्य पुरुषस्यरूपं यथामहारजनं वासोयथेंद्रकोपोयथार्ग्न्चिर्यथा पुंडरीक’मिति तस्याकारविशेषं चाभिधाय अथात आदेशोनेति नह्येतस्मादिति नेत्यन्यत्परमस्तीति प्रकृतं सर्वं ब्रह्मणः प्रकारमिति शब्देन परमृश्य तत्सर्वंप्रतिषिध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्मस्वरूपमिति दर्शयति श्रुतिः। अतः कथमुभयलिंगत्वं ब्रह्मण इति चेत्, उच्यते। प्रकृतैतावत्त्वं प्रतिषेधतीदं वाक्यं। ये ब्रह्मणो विशेषाः प्रकृताः तद्विशिष्टतया तस्य प्रतीयमानेयत्ता नेति नेतीति प्रतिषिध्यते। उक्तप्रकारमात्रविशिष्टं ब्रह्म न भवतीति यतो निषेधानन्तरं भूयोऽपि तस्य गुणजातं ब्रवीति- नह्येतस्मादिति नेत्यन्यत् परमस्त्यथनामेधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति। अयमर्थः। नेत्यनेन एतावन्मात्रविशिष्टं न भवतीतियर्थकेन यद्ब्रह्मप्रकृतं तस्मादेतस्मादन्यत् परमुत्कृष्टं वस्तु नास्ति तदेव सर्वोत्कृष्टं यतस्तस्य ब्रह्मणो नामधेयं सत्यस्य सत्यमिति। तत्र षष्ठ्यन्तसत्यशब्देन वियदादिवत् स्वरूपान्यथा भावरूपविकाररहितो जीववर्ग उच्यते। ततोऽप्येषः प्रकृतः परमात्मा सत्यः कर्मानुगुणज्ञानसङ्कोचविकासरूप- धर्मान्यथाभावस्याप्यभावादिति तन्निर्वचनमिति। तस्मादेवंविधवाक्यशेषोदितगुणयोगात् ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते, किंतु पूर्वप्रकृतेयत्तामात्रं। श्रुत्य पूर्ववाक्ये स्वयमुपदिष्टस्य मूर्तामूर्तप्रप़ञ्चवैशिष्ट्यस्य स्वयमेव निषेधायोगात्। नहि ब्रह्मणस्तद्वैशिष्ट्यं प्रमाणान्तरसिद्धं येनेह तदनूद्य निषिध्यते। ब्रह्मैव हि तावदव्यक्तं ‘न सन्द्दशे तिष्ठति रूपमस्ये’त्यादिश्रुतेः। तत्र तद्वैशिष्ट्यं कथमन्यतस्सिध्येत्। अपि च संराधने सम्यक्प्रीणने महनीयविषयप्रीतिरूपभक्तिदशापन्ने निधिध्यासन एव तस्य दर्शनं नान्यत्रेति ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां। भक्त्यात्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे’ त्यादिश्रुतिस्मृतिभ्यामवगम्यते। अतोऽपि तत्र प्रागप्रसिद्धं मूर्तामूर्तवैशिष्ट्यं नानुवदितुं क्षमं। इतश्च ज्ञानानन्दवत् ब्रह्मणो जगद्वैश्वर्यमपि वस्तुतो रूपं तत्संराधनाभ्यां तत्साक्षात्कृतब्रह्मणा साक्षात्कारे ज्ञानानन्दादिस्वरूपवत् मूर्तामूर्तविशिष्टताया अपि ब्रह्मगुणत्वावैशेष्यमवभासते ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चे’ त्यादिश्रुतेः। अतस्तत्त्वसाक्षात्कारे भासमानस्य पारमार्थिकत्वनियमान्नप्रपञ्चवैशिष्ट्यं निषेधक्षमिति प्रकृतेयत्तामात्रस्य निषेधः। अत उक्तैर्हेतुभिर्ब्रह्मणोऽनन्तकल्याणागुणविशिष्टत्वसिद्धेरुभयलिङ्गमेव ब्रह्म॥

संग्रहकारिकाः॥

शरीरदौ हेयेस्थितिरवसिता दुःखरिणी

कथं न ब्रह्मांतर्यमयितृ भवे द्दुःखकलुषम्।

श्रुतिस्मृत्यद्धोषान्मितमुभयलिङ्गं तदिति चेत्

मितं प्राजापत्या द्वचस इह जीवोपिहि तथा॥

अथकर्मतिरोहितं तदीयं यदिनिर्दोषगुणाकरत्वलिङ्गम्।

अदसीयमपीत्थमेव साम्यादुभयोः कर्मनिकायवश्यतायाः॥

शास्रं हि ब्रह्मापि क्रोडीकुरुते स्फुटं नियोज्यतया।

ब्रह्मक्षत्रादिपदैरुदितं तत्तच्छरीरकत्वेन॥

माभूत्कर्मस्वेच्छयावास्य देहैस्संबन्धोस्तुस्यादनर्थायसोपि।

किंनच्छिन्द्याद्राजकोपं विनापि स्वेच्छामात्रात्तक्ष्णिखङ्गप्रहारः॥

न च तस्य गुणास्संतिनेतिनेती तिशब्दतः।

विज्ञानमात्रतोक्तेश्च साक्षाच्चागुणाताश्रुतेः॥

 मैवं कर्मनिबंधनमिदं न वस्तुवभावकृतम्।

देहेंद्रियविषयाणामचितां यद्दुःखहेतुत्वम्॥

अत एव हि कल्पंते भोजकभेदाच्च कालभेदाच्च।

ते दु:खाय सुखाय च महतः पुरुषस्य संकल्पात्॥

नास्यकर्मविधिभिर्नियोज्यता ब्रह्मणोस्त्यपरतंत्रवृत्तिनः।

ज्ञाप्यता नु खलु सर्ववेदितुः प्रेर्यतापि च न सर्वशासितुः॥

तस्मादयं कर्मतिरोधिहीनः निर्दोषकल्याणगुणाकरत्वात्।

हेयेषु तिष्ठन्नपि तेषुतेषु स्पृश्यो न दोषैस्सवितेव तोये॥

विज्ञानाकारतोक्त्या शुभगुणनिकरानव्यवच्छेद

मर्हन्त्याम्नातत्वाविशेषात्तदितरविषयस्स्याद्गुणानां निषेधः।

एतावत्वं निषेधन्प्रकृतपरिमितं नेतिनेतीति शब्दो

भूयोऽन्यच्चव्यनक्ति क्षिपति न विहितं ब्रह्मणो रूपयुग्मम्॥

इति उभयलिङ्गाधिकरणम् ॥5॥

उभयव्यपदेशात्त्वहिकुंडलवत् ॥26॥

प्रकाशाश्रयवद्वा तेजस्त्वात् ॥27॥

पूर्ववद्वा ॥28॥

प्रतिषेधाच्च ॥29॥

मूर्तामूर्तब्राह्मणोक्तं प्रपञ्चस्य ब्रह्मस्वरूपत्वं कीद्दशमिति विचार्यत इति सङ्गतिः। किंतदहिकुण्डलयोरिव भेदाभेदाभ्यां, उतप्रभाप्रभावतोरिवैकजातियागेन, अथवाजीवस्येव शरीरतयेति संशये यथाहेरहित्वेनाभेदेपि  कुण्डलभावऋजुभावरूपसंस्थानविशेषापत्या भेदः एवं ब्रह्मणः स्वरूपाभेदेपि कार्यप्रपञ्चरूपापत्याभेदः ‘ब्रह्मैवेदं सर्वमिति नामरूपं व्याकरवाणी’ ति भेदाभेदोभयव्यपदेशादित्येकः पक्षः। तथा सति ब्रह्मणो निर्विकारत्वश्रुतिविरोध: स्यात्।अतोभिन्नायोरेव ब्रह्मादिप्रपञ्चयोरेकजातियोगेनाभेदव्यपदेशः सर्वमिदं तेज इति व्यवहारवत् सर्वं खल्विदं ब्रह्मेति व्यवहार इति पक्षांतरम्। गोत्वस्य खण्डमुण्डादाविव ब्रह्मत्वस्य घटपटादावनुवृत्तेः सकलश्रुतिस्मृतिव्यवहार विरुद्धत्वाज्जीववदचित्प्रपञ्चस्यापि शरीरतयैव ब्रह्मविशेषणता। अत एव शरीरधर्माणां शरीरिणि प्रसक्तौ ‘नास्य चरयैतज्जीर्यति न वधेनास्य हन्यत’ इति तत्प्रतिषेधः। तस्मादुपपन्नं ब्रह्मणः पूर्वाधिकरणोक्तं निर्दोषत्वम्। अस्य पृथगधिकरणत्वे प्रकृतैतावत्त्वमित्यादेः पूर्वाधिकरणानुप्रनिष्टत्वे च हेतुः श्रोतव्य इत्युक्तं श्रुतप्रकाशिकायाम्॥

संग्रहकारिके॥

संस्थानविशेषतया विश्वस्य ब्रह्मरूपत्वम्। अहिकुण्डलतावत्स्याद्रुचिदीपवदैकजात्याद्वा॥

जीवस्येवांशत्वं विशिष्टवस्त्वेकदेशतारूपम्।

रूपत्वं विश्वस्य श्रुतुनिकुरुम्बाविरोधेन॥

इति अहिकुण्डलाधिकरणम् ॥6॥

परमतस्सेतून्मानसम्बन्धबेदव्यपदेशेभ्यः ॥30॥

सामान्यात्तु ॥31॥

बुध्यर्थः पादवत् ॥32॥

स्थानविशेषात्प्रकाशादिवत् ॥33॥

उपपत्तेश्च ॥34॥

तथाऽन्यप्रतिषेधात् ॥35॥ 

अनेन सर्वगतममायात्वशब्दादिभ्यः ॥36॥

उभयलिंगाधिकरणे ‘नह्येतस्मादितिनेत्यन्यत्परमस्ती’ ति ब्रह्मणोऽन्यदुत्कृष्टं वस्तु नास्तीत्युक्तम्। तदाक्षिप्य समर्थ्यत इति सङ्गतिः। अहिकुण्डलाधिकरणं तु प्रासाङ्गिकमिति मूलाधिकरणेनेयं सङ्गतिः। जन्मादिसूत्रमारभ्य प्रतिपादितात् ब्रह्मणः परंवस्त्वस्ति नवेति सेतुत्वादिव्यपदेशानां गत्यन्तरहासम्भवसम्भवाभ्यां संशये पूर्वः पक्षः। ब्रह्मणः परमपि किंचित्तत्वमस्ति। सेत्वादिव्यपदेशेभ्यः। सेतुव्यपदेशस्तावत् ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेताये’ ति। अनेन प्रसिद्धसेतोः कूलान्तरमिवब्रह्मणः प्राप्यान्तरमस्तीति गम्यते। नच ‘एषांलोकानामसम्भेदाये’ ति श्रुतासङ्करकारित्वेन दहराकाशरूपस्य ब्रह्मणस्सेतुत्वव्यपदेशोपपत्तिरितिवाच्यम्। ‘एतं सेतुं तीर्त्वान्धस्सन्ननन्धोभवती’ ति तत्रैव प्रकरणे तरितव्यत्वश्रवणेन प्राप्यान्तरप्रापकत्वस्यापि तत्स्सेतुशब्दात् प्रतीतेः। तथा इयत्तापरिच्छेदरूपोन्मानव्यपदेशो द्दश्यते ‘तदेतद्ब्रह्मचकतुष्पात्षोडशकल’ मिति। चत्वारः पादास्तत्रैव निरूपिताः ‘प्राची दिक्कलाप्रतीचीदिक्कलादक्षिणादिक्कलोदीचीदिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम अग्निः कलासूर्यः कला चन्द्रः कलाविद्यत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो प्रकाशवान्नाम पृथिवीकलान्तरिक्षंकला द्यौ: कलासमुद्र: कलैष वै सोम्य चतुष्कल: पादो ब्रह्मणोऽनन्तवान्नाम अग्नि: कलासूर्य: कला चन्द्र: कलविद्युत्कलैष वै सोम्य चतुष्कल: पादो ब्ह्मणो ज्योतिश्मान्नाम प्राणःकलाचक्षुः कला श्रोत्रंकला मनः कलैषवैसोम्य चतुष्कलः पादोब्रह्मण आयतनवान्नामेति। गवांपादेषु पुरतौ द्वौ खुरौ पश्चाद्वौपार्ष्णी इत्येकैकस्मिन् पादे चत्वारश्चत्वारश्शफास्संति ते कलाशब्देनोच्यंते। एवं परिमितं ब्रह्मेत्परिमितं यत्प्राप्यं मोक्षशास्रेषु ‘पादोस्य सर्वाभूतानि त्रिपादस्यामृतं दिवि’ त्यादिषु स्वैकदेशविश्रांत सकलप्रपञ्चं प्रसिद्धं तत्ब्रह्मणोन्यत् तत्प्राप्यमवसीयते।साक्षादेवमुक्त्प्राप्यस्य ब्रह्मणश्च प्राप्यप्रापकभावसंबन्धस्यापि व्यपदेशो द्दश्यते। ‘अमृतस्य परं सेतुं दग्धेंधनमिवानल’मिति। तथाभेदव्यपदेशश्च द्दश्यते। ‘तेनेदपूर्णं पुरुषेण सर्व’मिति ब्रह्मप्रकृत्य ‘ततोयदुत्तरतरंतदरूपमनामयं य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ती’ ति। एवमेभ्यो हेतुभ्यः परस्माद्ब्रह्मणः परं मुक्तप्राप्यं तत्वमस्तीति। प्राप्तेऽभिधीयते। नास्तिपरब्रह्मणः परंतत्वांतरम्। न हि जन्मादिसूत्रमारभ्य सकलजगदभिन्ननिमित्तोपादानतया मुक्तोपास्यतया मुक्तप्राप्यतया च तत्र तत्र प्रतिपादितादनुपदमेव ‘नह्येतस्मादिति नेत्यन्त्पतमस्ती’ति सर्वोत्कृष्टतया प्रतिपादिताच्चब्रह्मणः परं तत्त्वांतरमस्तीति शङ्का हृदयमधिरोहति। सेत्वादिव्यपदेशानां गतिमात्रं वक्तव्यं तदुच्यते। सेतुव्यपदेशो वाक्यशेषश्रुतासंकरकारित्वमात्रेण। सेतुं तीर्त्वेति तरतिः प्राप्त्यर्थः यथा वेदं तरतीति। चतुष्पाद्ब्रह्मेत्यादिव्यपदेश उपासनार्थः। स्वयमनुन्मितस्योपासनार्थमपि कथमुन्मितत्वव्यपदेश इति चेत्। प्रकाशवदिति ब्रूमः। द्दश्यते हि सौरप्रकाशादेर्विततस्यापि वातायनादिस्थानभेदोपाध्यवच्छेदात् परिच्छिन्नत्वं। प्राप्यप्रापकभावव्यपदेशश्चाभेदेऽप्युपपद्यते प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यैवोपायत्वात्। ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वा’ मित्यनन्योपायत्वश्रवणात्। अतो नातिवाहिकवत् ब्रह्मणः प्राप्यांतरप्राप- कत्वम्। भेदव्यपदेशस्त्वसिद्धः। ‘ततो यदुत्तरतर’ मित्यत्र तत् इत्यस्य हेतुपञ्चमीत्वेनावधिपञ्चमीत्वाभावात्। यस्मात्परं नापरमस्ति किंचिदिति पूर्वमंत्रे ब्रह्मणोन्यत्परमुत्कृष्टं नास्तीत्युक्तत्वेन ‘वेदाहमेतं पुरुषं महान्त’मिति पूर्वमंत्रे तद्वदनस्यामृतत्वसाधनताया उक्तत्वेन च तदनन्तरं तस्मात्परस्योक्तेस्तद्वदनरहितानाममृतत्वाभावोक्तेश्चोपक्रमविरुद्धात्। अतः पूर्वोक्तं परमपुरुषादन्यदुत्कृष्टं नास्तीत्येतत्तस्यैव सर्वोत्कर्षत्वे हेतुत्वेन तत इति पञ्चम्यन्तं पदं परामृशतीत्येव युक्तम्। अपि च ‘तेनेदं पूर्णं पुरुषेण सर्वं। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इत्यादिकात् परमपुरुषस्य सर्वव्यापकत्ववचन जातादपि तस्मात्परं तत्त्वं नास्तीत्यवसीयते। तदधिकतत्त्वान्तरसद्भावे तस्य सर्वशरीरकतया सर्वव्यापकोक्त्ययोगात्। तस्माद्ब्रह्मणः परं तत्त्वान्तरं नास्ति ब्रह्मैव मुमुक्षूपास्यं मुक्तप्राप्यं च परं तत्त्वमिति सिद्धम्॥

 संग्रहकारिकाः॥

तरितव्यसेतुभावोमिति रन्यप्रापकत्वमन्यावरता।

गमयन्ति कारणमपि प्रापकमिति वोढृवत्ततोऽन्यत्॥

प्राप्यं मैवं कारणमेव हि सर्वत्र प्राप्यमाम्नातम्।

सेतुत्वाद्युक्तीनां तदनुगुणा वृत्तिरेष्टव्या॥

सेतुरिहासङ्करकृत्तरतिः प्राप्तिर्मितिः परोपधिना।

स्वस्य स्वप्रापकता चेष्टव्या पंचमी च हेत्वर्था॥

इति पराधिकरणम् ॥7॥

फलमत उपपत्तेः ॥37॥

श्रुतत्वाच्च ॥38॥

धर्मं जैमिनिरत एव ॥39॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥40॥

संसाराद्वैराग्योपायस्य जागराद्यवस्थासु जीवस्य दोषजातस्य निरूपणानन्तरं परब्रह्मप्रेप्सया तदुपासनेच्छोत्पादनाय परब्रह्मणो निर्दोषत्वं कल्याणगुणाकरत्वं सर्वस्मादुत्कृष्टत्वं च प्रतिपादितम्। अतः परमुपासनं निरूपयिष्यन् उपासनानामस्मात्परमपुरुषादेव तत्प्राप्तिरूपं फलमिति विवक्षया विशेषे प्रस्तुते सामान्याधानरूपेणाप्रस्तुतप्रशंसालङ्कारेण सकलकर्मफलप्रदत्वमनेनाधिकरणेन प्रतिपाद्यते। अथवा महाप्रभुर्महावदान्यश्च महाफलार्थिभिस्सेव्यः। नतु महाविभवयुक्तोऽपि कदर्यः नापि महावदान्यप्रकृतिरप्यकिंचनः। अतः परब्रह्मण उपासनाभिस्सेव्यत्वसिध्यर्थं तस्य स्वल्पसेवयापि महाफलप्रदत्वंरूपं महावदान्यत्वं प्रदर्श्यते इति सङ्गतिः। विधिश्रुतेः ‘अन्नोदो वसुदान’ इत्यादिश्रुतेश्च संशये पूर्वः पक्षः। कर्मोपासनाभिराराधनात् प्रसन्नस्य परमपुरुषस्य फलदातृत्वे कर्मानुष्ठानानन्तरमेव प्रसादो वक्तुं न शक्यते। परमस्वतंत्रस्य प्रसादेसति फलविलम्बायोगात्सङ्कीर्तनादिना  फलजननाभावप्रसङ्गाच्च भाविसङ्कीर्तनेन फलाजननमननुसन्धाय हठात्प्र- सीदतश्चासर्वज्ञत्वप्रसङ्गात् प्रयाजादिभिस्तदनष्ठानानन्तरमेव प्रसादेसति प्रधानानुष्ठानेऽप्यङ्गान्तरवैकल्येऽपि फलनिष्पत्तिप्रसङ्गात् सर्वेश्वरप्रसादस्य वंध्यत्वायोगात्। तस्मात्कर्मभिरपूर्वेनिष्पन्ने तस्य सङ्कीर्तनादिनाशहेतु रहितस्य फलजननौन्मुख्ये सति परमेश्वरः प्रसीदतीति वक्तव्यम्। ततश्चावश्याभ्युपगन्तव्यापूर्वेणैव निर्वाहे किमीश्वरप्रसादस्यापि कल्पनया। अतः कृष्यादिकर्मवत् कस्यापि प्रसादमनपेक्ष्यैव यागादिकं फलजनकमिति। एवं प्राप्ते सिद्धान्तः। क्षणविध्वंसिनः कर्मणः कालान्तरभाविफलजननार्थं ‘तृप्त एवैनमिंद्रः प्रजया पशुभिस्तर्पयती’ त्यादिवाक्यशेषावगतदेवताप्रीतिद्वारकत्वौचित्यात्। न च प्रतिमन्वन्तरं भिन्नानामिंद्रादीनां मन्वन्तरान्तरभाविकर्म। ‘अन्नादो वसुदान’ इत्यादिस्त्वीश्वरस्य देवतात्वेन यागाङ्गत्वात् तत्प्रशंसापरः। कृषिकर्मणि साहाय्यं कृतवतामपिहि भवद्भिरेवेदं सर्वं कृषिफलं दत्तमिति प्रशंया द्दश्यते। फलदातृत्वायोगात् एताद्दशार्थवादाः कर्मान्वयिदेवताप्रशंसामात्रपरा इति वाच्यम्। तेष्विंद्रादिशब्दानां तत्तदन्तर्यामिपरमात्मपरत्वात्। ‘इष्टापूर्तं बहुधाजातं जायमानं विश्वंबिभर्ति भुवनस्यनाभिः। तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमाः। यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्याराधन- मीहते। लभते च ततः कामान्मयैव विहितान्हितान् ॥ ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इत्यादिश्रुतिस्मृतिदर्शनात्। एवं रात्रिसत्रन्यायसाम्येन वाक्यशेषश्रुतेदेवताप्रसादे द्वारे कॢप्ते तन्निर्वाहार्थमङ्गप्रधानापूर्वकल्पनागौरवं फलमुखत्वान्नदोषः। तस्मात्साङ्गकर्मानुष्ठानेनापूर्वं सम्पाद्य तस्य यावद्विपाकमसंकीर्तनादिभ्यस्संरक्षणेसति अविकले भृत्यस्य सेवनेसति नृपतिरिव प्रसन्नः परमेश्वरस्तत्फलं प्रयच्छति ‘सवा एष महानज आत्माऽन्नादो वसुदानः। एषह्येवानन्दयाती’ ति तस्य भोगापवर्गरूपसकलफलप्रदत्वश्रवणात् कर्मणः फलसाधनत्ववचनानां तत्प्रसादद्वारकत्वेऽप्युपपत्तेरिति॥

संग्रहकारिके॥

कृषिमर्दनादिरीत्या यागादितएव फलमितिचेत्।

तत्र हि कल्प्यमपूर्वं श्रुतिसिद्धंत्वीश्वरस्य फलदत्वम्॥

तस्मादग्न्यादिदेवात्मा शुद्धोवाऽप्यभिपूजितः।

कर्मोपासनजातस्य हरिरेव फलप्रदः॥

इति फलाधिकरणम् ॥8॥

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्यचार्यश्रीविश्वजि- द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्यदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे तृतीयस्याध्यायस्य द्वितीयः पादः॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.