॥श्रीः।।
श्री श्रीनिवासाचार्यैः विरचिता
नयसङ्गतिमालिका
कारणम् सर्वजगताम् शरणम् सम्श्चितात्मनाम् ।
अनन्तम् सत्यमानन्दम् विज्ञानममलम् श्रये ।।१॥
अभिवन्द्य महोदारामस्मद्गुरुपरम्पराम् ।
कुर्वे श्रीभाष्यसिद्धान्ते नयसङ्गमिलिकाम् ।।२॥
अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका ।
तद्धेतुज्ञानविषयसंबन्धस्सङ्गतिर्मता ॥३॥
उपोद्धातश्चापवादः प्रत्युदाहृतिरेव च ।
दृष्टान्ताक्षेपातिदेशप्रसङ्गा इति सप्तधा।।४॥
उपोद्धातः प्रस्तुतार्थस्योपपादकता ततः।
चिन्ताम् प्रकृतसिद्ध्यर्थामुपोद्धातम् विदुर्बुधाः ।।५।।
पूर्वाधिकृतिसिद्धान्तन्यायम् यत्रावलम्बते ।
उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी ।।६॥
पूर्वाधिकृतिसिद्धान्तन्यायस्याविषयीक्रियाम् ।
आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्युदाहृतिः ।।७॥
पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसम्श्रयात् ।
उत्तराधिक्रियोत्थाने भवेत् दृष्टान्तसङ्गतिः ॥८॥
पूर्वाधिकृतिसिद्धान्तन्यायस्यानुपपन्नताम् ।
शङ्कित्वा पूर्वपक्षस्योत्थाने त्वाक्षेपसङ्गतिः ।।९।।
कृत्वा यत्राधिकाम्शङ्काम् पूर्वमेवातिदिश्यते ।
सङ्गतिः कथिता सद्भिः काचित्तत्रातिदेशिकी ।।१०॥
स्मृतस्योक्तार्थसम्बन्धादुपेक्षाया अनर्हता ।
प्रसङ्ग इति यत्प्राहुः यस्मात्सैव हि सङ्गतिः ।।११।।
तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृता ।
या सङ्गतिस्स प्रसङ्ग इति निष्कृष्टलक्षणम् ।।१२।।
प्रायेण हि प्रबन्धेऽस्मिन्नपवादादिशब्दतः ।
सङ्गतिस्सूच्यत इति समुद्गृह्णन्तु सूरयः ।।१३।।
धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।
सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ।।१४।।
स्वरूपमादौ तद्भेदः तदुपासनपूर्वकम् ।
फलम् च देवताकाण्डे देवतानाम् तु कथ्यते ।। १५॥
समन्वयोऽविरोधश्च साधनम् च प्रयोजनम् ।
काण्डत्रये प्रधानार्था एते विम्शतिलक्षणे ।।१६॥
सिद्धम् साध्यमिति द्वेधा विषयो विषयीत्यपि ।
तार्तीयीकम् काण्डमिदम् द्विकद्वितयगर्भितम् ।।१७।।
शास्त्रकाण्डद्विकाध्यायपेटिकाधिक्रियाङ्घ्रिभिः ।
सूत्रभेदाच्चाष्टविधा वक्तव्या सङ्गतिस्त्विह ।।१८॥
अन्तर्भावात्मिका शास्त्रादिषु षट्स्विह सङ्गतिः ।
आनन्तर्यात्मिका ज्ञेयाऽधिक्रियासूत्रयोः पुनः ।।१९।।
वेदार्थन्यायरूपत्वान्मीमाम्साशास्त्रसङ्गतिः ।
वेदान्तार्थविचारत्वात्काण्डसङ्गतिरुच्यते ।।२०॥
सिद्धवस्तुविचारत्वात् प्रथमद्विकसङ्गतिः ।
समन्वयप्रधानत्वात् प्रथमाध्यायसङ्गतिः ।।२१।।
अत्रायोगव्यवच्छेदपादे स्यात्पेटिकात्रयम्।
चतुर्भिश्च त्रिभिश्चैव चतुर्भिश्च नयैः क्रमात् ।।२२।।
तत्राद्यपेटिका शास्त्रस्यानारम्भप्रशान्तिकृत् ।
न्यायश्चतुर्भिः प्रथमे पुनरेषाऽवर्धायताम् ।।२३ ।।
देवताकाण्डचरमाधिक्रियायाम् हि सूत्रितम् ।
अन्ते हरौ दर्शनात्सः विष्णुराहेत्यतः परम् ।।२४||
१-१-१ तम् ब्रह्मेत्यादिनिर्देशात् ब्रह्मशब्दार्थगोचराम् ।
अप्रसिद्धिम् निराचष्टे तस्मादाक्षेपसङ्गतिः ।।२५॥
१-१-२ प्रमाणलक्षणाभ्याम् च वस्तुसिद्धिरिति स्थिते ।
स्यात्प्रमेयपरीक्षाऽथ प्रमाणाक्षेपमूलिका ।।२६।।
१-१-३ इश्वरस्यानुमानेन सिद्धस्याप्राप्त्यसम्भवात् ।
प्रामाण्यस्य समाक्षेपः शास्त्रयोनिनये धुतः।।२७।।
१-१-४ प्रामाण्यफलयत्नानाम् क्रमे व्यापकहानितः ।
समन्वयनयस्तुर्यः प्रामाण्याक्षेपमच्छिनत् । ।२८।।
असम्भवो लक्षणस्य लक्ष्यासिद्धिनिबन्धनः ।
योऽयोगस्तद्व्यवच्छेदः प्रथमे पाद उच्यते ।।२९।।
अतिव्याप्तिर्योऽन्ययोग: तद्व्यवच्छेदलक्षणः ।
अर्थस्त्रिपाद्यामिति च विवेकस्स्यात्समासतः ।।३०॥
१-१-५ वेदान्तसारसद्विद्या वक्ति प्रकुतिहेतुताम् ।
इत्याक्षेपप्रतिक्षेपः स्यादीक्षति नयेऽधुना ।।३१।।
एवम् बह्वयस्सङ्गतयः प्रोक्ता मुखविभेदतः ।
तत्र मुख्या सङ्गृहीता शिष्यविक्षेपशान्तये ।।३२।।
१-१-६ अथानन्दाधिकरणे जीवो मुख्येक्षणादिमान् ।
जगतः कारणम् स्यादित्यपवादोऽत्र वार्यते ।।३३।।
१-१-७ सयश्चायमिति श्रुत्या पूर्वाधिकृतिशेषतः।
अन्तर्णये पुण्यजीवकारणत्वमपोद्यते ।।३४।।
१-१-८ विशेषलिङ्गम् प्रबलम् सामान्यश्रुतितो मतम् ।
विपरीतमिहाकाशनयेऽतः प्रत्युदाहतिः ।।३५।।
१-१-९ अत्र कृत्वाऽधिकाशङ्काम् पूर्वन्यायातिदेशतः ।
अपाकरोत्प्राणनये सङ्गतिस्त्वातिदेशिकी ।।३६।।
१-१-१० स्ववाक्योक्तब्रह्मलिङ्गविशेषदर्शनादिह ।
ज्योतिर्विचार्यते तस्मात् प्रत्युदाहृतिसङ्गतिः ।।३७॥
१-१-११ पूर्वोक्तात्पूर्वपक्षः स्यादुपक्रमपराक्रमात् ।
इन्द्रप्राणाधिकरणे सङ्गतिस्त्वापवादिकी ।।३८॥
एवम् समगमन्नाद्यपादे प्रथमलक्षणे ।
पेटिकात्रितयम् चैकादशाधिकरणान्यपि ।।३९ ।।
॥ इति नयसङ्गतिमालिकायाम् प्रथमाध्याये प्रथमः पादः ॥
अथ द्वितीयपादेऽस्मिन् त्रिकद्विकविभागतः ।
अल्पस्थानमहास्थानस्थितेशोपास्तिपेटिके ।।४०॥
१-२-१ महावाक्यगतम् ब्रह्मलिङ्गम् प्रबलमीरितम् ।
तादृक्षलिङ्गतस्सर्वनये शङ्का व्यपोद्यते ।।४१॥
१-२-२ भोक्तृत्वम् नास्तिचेदन्तर्यामिणः जीव एव सः ।
अत्ता स्यादिति शङ्कातः सङ्गतिः प्रत्युदाहृतिः ।।४२॥ f
१-२-३ अत्तुर्दुर्दर्शतायाम् स्यादक्षिदृश्यस्सुदर्शनः ।
प्रत्युदाहृतिसङ्गत्याऽतोऽन्तराधिक्रियोदयः ।।४३॥
१-२-४ अक्षिस्थपुरुषस्यैव ब्रह्मत्वस्योपपादिका ।
अथान्तर्याम्यधिकृतिः तेनोपोद्धातसङ्गतिः ।।४४॥
१-२-५ अदृश्यत्वाधिकरणे द्रष्ट्टत्वादेरनुक्तितः ।
प्रकृतिर्वा पुमान्वेति शङ्कतिः प्रत्युदाहृतिः ॥४५॥
१-२-६ प्राग्विश्वरूपोपन्यासः ध्युमूर्धत्वादिना कृतः ।
तत्क्लृप्त्या चिन्त्यते वैश्वानरविद्याऽपवादतः ।।४६॥
इत्थम् ह्यधिक्रियाषट्कम् पेटिकाद्वयलक्षणम् ।
अध्याये प्रथमे द्वैतीयीकपादे सुसङ्गतम् ।। ४७॥
॥ इति नयसङ्गतिमालिकायाम् प्रथमाध्याये द्वितीय:पादः॥
अथ द्वाभ्याम् चतुर्भिश्च त्रिभिरेकेन च क्रमात् ।
न्यायैस्त्रितीयचरणे पेटिकानाम् चतुष्टयम् ।।४८॥
१-३-१ द्युपृथिव्यादिसम्बन्धः प्राक्पादान्ते निरूपितः ।
जीवेऽस्तीत्यपवादेन द्युभ्वादिनयनिर्णयः ।।४९॥
१-३-२ उक्तात्प्रकरणस्यैक्यादेव सिद्धान्तयुक्तितः ।
अपवादो भूमनये जीवेनात्र निराकृतः ।।५०॥
१-३-३ प्रकृतौ पुरुषे वैषा स्वे महिम्नि प्रतिष्ठितिः ।
प्रोक्ताऽस्तीत्यपवादेन स्यादक्षरनयोदयः ।।५१॥
१-३-४ उक्ताऽदृष्टद्रष्दृताऽत्र न सम्श्लिष्यत इत्यतः ।
भवेदीक्षतिकर्माधिकरणे प्रत्युदाहृतिः ।।५२॥
१-३-५ निर्णीतः प्राक्पुरिशयः पुरुषश्रुतिवैभवात् ।
प्रत्युदाहृतिसङ्गत्या दहराधिक्रियोत्थितिः ।।५३॥
१-३-६ ब्रह्मणोऽस्त्वल्पमानत्वम् प्रमिताधिकृतौ पुनः ।
तद्विशेषश्रुतेर्जीवस्स्यादिति प्रत्युदीर्यते ।।५४॥
१-३-७ उपासनम् मनुष्याधिकारम् चेत्प्रमितोक्तितः ।
देवाधिकारापवादः देवतानयवारितः ।।५५॥
१-३-८ यद्यप्युपास्तिसामान्ये स्यात्सामर्थ्यादिसम्भवः ।
प्रत्युदाहरणत्वेन मध्वादिनयसम्भवः ।।५६॥
१-३-९ शूद्रो विद्याधिकारी स्यात् सामर्थ्यार्थित्वयोगतः ।
इत्याशङ्कापवादार्थमपशूद्रनयोदयः ।।५७॥
१-३-१० प्रसक्तानुप्रसक्तयेत्थमधिकारचतुष्टयम् ।
दहनीत्युत्थापवादमर्थान्तरनयोऽच्छिनत् ।।५८॥
एवम् चतुष्पेटिकोऽयम् दशाधिकरणात्मकः ।
अध्याये प्रथमे पादस्तार्तीयीकस्सुसङ्गतः ।।५९॥
॥ इति नयसङ्गतिमालिकायाम् प्रथमस्य तृतीयः पादः ॥
आद्याध्याये तुर्यपादे नीत्यष्टकमसूत्रयत् ।
तत्र षड्भिर्नयैस्साङ्ख्यान् द्वाभ्याम् यौगानशीशमत् ।।६०॥
१-४-१ मुक्तवैलक्षण्यमुक्तम् प्राक्पादान्ते न युज्यते ।
परस्यैव प्रतिक्षेपादाक्षेपो ह्यानुमानिके ।।६१॥
१-४-२ पारिशेष्यस्थानमाने नाजावाक्ये स्त इत्यतः ।
प्रत्युदाहरणत्वेन चमसाख्यनयोदयः ।।६२॥
१-४-३ वाक्यान्तरस्य चाभावात् तत्त्वसङ्ख्याविरोधतः ।
सङ्ख्योपसङ्ग्रहनये शङ्कातः प्रत्युदाहृतिः ।।६३।।
१-४-४ यस्मिन्निति पुरा प्रोक्तमाश्रयत्वम् न विद्यते ।
इत्याशङ्का कारणत्वनयेऽतः प्रत्युदाहृतिः ।।६४॥
१-४-५ सिद्धान्तः प्राक्प्रकरणात् ईक्षितृत्वादियोगतः ।
जीवलिङ्गात् जगद्वाचिनयस्स्यादपवादतः ।।६५॥
१-४-६ अन्यथोपपत्त्याख्यन्यायस्यात्र त्वसम्भवात् ।
शङ्कातो वाक्यनीतौ स्यात् प्रत्युदाहृतिसङ्गतिः ।।६६॥
१-४-७ उक्तम् ह्युभयहेतुत्वम् सर्वविज्ञानतः पुरा ।
प्रकृत्यधिकृतौ तस्य सम्यगाक्षिप्य निर्णयः ।।६७॥
१-४-८ सर्वत्रोक्तप्रकारेण निर्वाहः स्वयमूह्यताम् ।
इति चात्रातिदिश्यन्ते प्रागुक्तास्सर्वनीतयः ।।६८॥
इत्थमष्टाधिकरणी पेटिकाद्वयसङ्गता ।
आद्याध्याये तुर्यपादे सन्दर्भम् समुपागम् ।।६१।।
॥ इति नयसङ्गतिमालिकायाम् प्रथमस्य तुरीयःपादः, अध्यायश्च ॥
अथाविरोधाध्याये द्वौ पादौ कारणमूलकम् ।
अनन्तरौ कार्यमूलम् विरोधम् च निरास्थताम् ॥ ७० ॥
आद्ये स्यात्पेटिकायुग्मम् द्वाभ्यामप्यष्टभिर्नयैः ।
स्मृत्या तर्कैश्च सञ्जातः विरोधो भज्यते क्रमात् ॥ ७१ ॥
२-१-१ सर्वव्याख्यानाधिकृतावीप्सिते चोपबृम्हणे ।
साङ्ख्यस्मृत्याऽपवादेन स्मृतिन्यायः प्रवर्तते ॥ ७२ ॥
२-१-२ योगस्मृत्याऽपवादे तु पूर्वन्यायातिदेशतः ।
योगप्रत्युक्त्यधिकृतिः सङ्गतिस्त्वातिदेशिकी ॥ ७३ ॥
२-१-३ विलक्षणत्वाधिकृतौ साङ्ख्यस्तर्कावलम्बनः ।
पुनःप्रत्यवतिष्ठेत तस्मादाक्षेपसङ्गतिः ॥ ७४ ॥
२-१-४ शिष्टापरिग्रहनये योगाद्यास्तर्कसाधनाः ।
अतिदेशान्निरस्यन्ते सङ्गतिस्त्वातिदेशिकी ॥ ७५ ॥
२-१-५ प्राक्शरीरात्मभावेन कृतास्सर्वोपपत्तयः ।
वैलक्षण्यापवादोऽतः भोक्तापत्तिनयोदयः ॥ ७६ ॥
२-१-६ वैलक्षण्ये कार्यहेत्वोरसत्कार्याभ्युपागमात् ।
आरम्भणाधिकरणमपवादनिरासकृत् ॥ ७७ ॥
२-१-७ सर्वतोऽनन्यता स्याच्चेत् ईश्वरस्स्यादनीश्वरः ।
अपाकृतोऽपवादोऽयम् तदनन्तरनीतितः ॥ ७८ ॥
२-१-८ वैलक्षण्यम् सत्यकामत्वादिभिः प्रतिपादितम् ।
तन्नोपपद्यत इति ह्याक्षेपोऽत्र निर्वायते ॥ ७९ ॥
२-१-९ क्षीरोदकादिकम् साम्शम् निरम्शम् ब्रह्म सम्मतम् ।
कृत्स्नप्रसक्त्यधिकृतौ सङ्गतिः प्रत्युदाहृतिः ॥ ८० ॥
२-१-१० प्रयोजनम् विना नेशो विचित्रम् स्रष्टुमर्हति ।
इति प्रयोजननये प्रोक्तमाक्षेपदूषणम् ॥ ८१ ॥
एवम् द्वितीयाद्यपादे मिथस्समगमन् क्रमात् ।
पेटिकाद्वयगूढानि दशाधिकरणान्यपि ॥ ८२ ॥
॥ इति नयसङ्गतिमालिकायाम् द्वितीयस्य प्रथमः पादः ॥
——————-
एवम् बाधः परिहृतः प्रतिपक्षो निरस्यते ।
पार्श्वस्थसम्शयोच्छित्त्यै द्वितीये चरणे पुनः ॥ ८३ ॥
२-२-१ विफला चित्प्रवृत्तिश्चेत् तादृश्येवाचितो वरम् ।
इति शङ्काऽपोद्यतेऽत्र रचनासम्भवात्पुनः ॥ ८४ ॥
२-२-२ ईश्वराधिष्ठितैरेव जगत्स्यात्परमाणुभिः ।
महद्दीर्घाधिकरणे शङ्कैषा प्रत्युदीर्यते ॥ ८५ ॥
२-२-३ सङ्घातवादे प्रारम्भवाददोषो न विद्यते ।
समुदायनये चापि शङ्कैषा प्रत्युदीर्यते ॥ ८६ ॥
२-२-४ वस्त्वस्ति यदि बाह्यम् तत् प्रोक्तदोषः प्रसज्यताम् । इत्यतोऽथाभावनयः प्रत्युदाहृतिसङ्गतेः ॥ ८७ ॥
२-२-५ न हि सर्वाभाववादे कोऽपि दोषः प्रसज्यते ।
इति माध्यमिको वादः प्रत्युदाहृतिसङ्गतः ॥ ८८ ॥
२-२-६ अथ सार्वात्म्यवादेन सर्वदोषनिराकृतिम् । अभ्युपेत्यार्हतनयस्योदयात्प्रत्युदाहृतिः ॥ ८९ ॥
२-२-७ तन्त्रम् पाशुपतम् सर्वसम्भवास्पदमिष्यताम् ।
इति शङ्कासम्भवेन चात्रापि प्रत्युदाहृतिः ॥ ९० ॥
२-२-८ पाञ्चरात्रे तन्त्रसाम्यात्प्रामाण्यम् चेदपोद्यते ।
उत्पत्यसम्भवनयः प्रामाण्यम् प्रत्यतिष्ठिपत् ॥ ९१ ॥
इत्थमष्टाधिकरणी पेटिकाद्वयगर्भिता ।
शारीरके तर्कपादे सन्दर्भम् समुपागमत् । ॥ ९२ ॥
इति नयसङ्गतिमालिकायाम् द्वितीयाध्यायस्य
द्वितीयस्य द्वितीयः पादः ||
एवम् निरस्तोपरोधा ब्रह्मकारणता स्थिता ।
निराबाधा कार्यताऽपि वर्तते पादयोर्द्वयोः || ९३ ||
अत्र पादद्वयमपि पेटिकाद्वयलक्षणम् ।
आद्या सप्ताधिकरणी द्वितीयाऽष्टनयात्मिका ॥ ९४ ॥
२-३-१ औपचारिकमित्युक्तम् प्राग्जीवोत्पत्तिभाषितम् ।
तथेति वियदुत्पत्तिवादस्स्यादित्यपोद्यते ॥ ९५ ॥
२-३-२ साक्षात्तु ब्रह्मकार्यत्वम् न स्यात्तेजोजलादिषु ।
इति तेजोऽधिकरणे शङ्का पुनरपोद्यते ॥ ९६ ॥
२-३-३ प्रागुक्तयुक्त्या जीवोऽपि कार्यस्स्यादिति सम्शयात् । आत्माधिकरणम् प्राप्तमपवादाख्यसङ्गतेः ॥ ९७ ॥
२-३-४ ज्ञानरूपस्य जीवस्यानुत्पत्त्यैव व्यपोदिते ।
स्वभावेऽप्यन्यथाभावे स्यात् ज्ञाधिकरणोदयः ॥ ९८ ॥
२-३-५ ज्ञानैकगुणसास्य निर्विकारस्य चात्मनः ।
अपोदिते च कर्तृत्वे भवेत्कर्तृनयोदयः ॥ ९९ ॥
२-३-६ स्वातन्त्र्यविनिवृत्त्यैव कर्तृत्वम् विनिवर्तते ।
इत्याक्षेपम् समाधातुम् परायत्तनयोदयः ॥ १०० ॥
२-३-७ परायत्ते च कर्तृत्वे पराम्शत्वम् विरुध्यते ।
इति प्राप्तेऽपवादेऽथ स्यादम्शाधिकृतिः पुनः ॥ १०१ ॥
इत्थम् सप्ताधिकरणी द्वितीयाध्यायवर्तिनि ।
तृतीयपादे ग्रथिता सङ्गत्यौवानया मिथः ॥ १०२ ॥
॥ इति नयसङ्गतिमालिकायाम् द्वितीयस्य तृतीयः पादः ॥
२-४-१ आत्माधिकरणार्थस्यैवातिदेशो भवेदिह ।
प्राणाधिकरणे तस्मादातिदेशिकसङ्गतिः ॥ १०३ ॥
२-४-२ तथेन्द्रियाणाम् कार्यत्वमुक्तम् तस्य प्रसङ्गतः ।
सङ्ख्याचिन्ताऽधुना तेषाम् स्यात्सप्तगतिनीतितः ॥ १०४ ॥
२-४-३ प्रसङ्गेनैवेन्द्रियाणाम् प्राणानामेव चिन्त्यते ।
प्राणाणुत्वाधिकरणेऽणुत्वम् वृत्तिविकासिनाम् ॥ १०५ ॥
२-४-४ मुख्यप्राणस्वरूपेऽपि विवादानाम् बहुत्वतः ।
वायुक्रियाधिकरणे प्रसङ्गात्तत्त्वनिर्णयः ॥ १०६ ॥
२-४-५ श्रेष्ठप्राणस्य कार्यत्वम् स्वरूपम् चोपवर्णितम् ।
श्रेष्ठाणुत्वाधिकरणेऽणुत्वम् चापि प्रसङ्गतः ॥ १०७ ॥
२-४-६ प्राणानाम् जन्यतेयत्ता परिमाणप्रसङ्गतः ।
अग्न्यादिदेवतानाम् चाधिष्ठानम् तत्र चिन्त्यते ॥ १०८ ॥
२-४-७ प्राणेन्द्रियाविभागेन विचारो विफलस्त्विति ।
आक्षेपपरिहारार्थम् स्यादिन्द्रियनयोदयः ॥ १०९ ॥
२-४-८ समष्टिसृष्टौ हेतुत्वम् स्यादेव परमात्मनः ।
सञ्ज्ञामूर्तिनये व्यष्टौ जीवस्य तदपोद्यते ॥ ११० ॥
इति नयसङ्गतिमालिकायाम् द्वितीयस्य
तुरीयः पादः अध्यायश्च ॥
वैराग्यमुभयम् लिङ्गम् विद्या विद्याङ्गमेव च । तार्तीयीकाध्यायपादप्रधानार्था इमे मताः ॥ १११ ॥
३-१-१ कृतो मूर्तिप्रसङ्ग: प्रागिह मूर्त्यन्तरग्रहे ।
तदन्तरनये भूतसूक्ष्मयोगो निरूप्यते ॥ ११२ ॥
३-१-२ अथैकभविकन्यायात्कर्मशेषविलोपने ।
भुक्तशिष्टस्य सम्बन्धः कृतात्ययनयोदितः ॥ ११३ ॥
३-१-३ प्राक्छुतेष्टापूर्तदत्तकारिणाम् चन्द्रमोगतिः ।
आशङ्कय सैषाऽनिष्टादिकारिणाम् प्रतिषिध्यते ॥ ११४ ॥
३-१-४ इष्टादिकारिणामत्र मृगाङ्कादवरोहताम् ।
तत्स्वभाव्यापत्तिनीत्याऽबादिभावपरिष्क्रिया ॥ ११५ ॥
३-१-५ अब्भ्रादिभावावस्थायाम् चिराचिरविचारणा ।
कृता नातिचिरन्याये जीवदुःखप्रसिद्धये ॥ ११६ ॥
३-१-६ व्रीह्यादिभावो जीवानामवरूढवतामिह ।
आश्लेषोऽऽन्याधिष्ठितेन तेन व्रीह्यादिनोच्यते ॥ ११७ ॥
इत्थम् तृतीयाध्यायाद्यपादे षण्णीतयः क्रमात् । प्रसङ्गसङ्गत्यैवैकप्रेटिकान्तर्गता मिथः ॥ ११८ ॥
इति नयसङ्गतिमालिकायाम् तृतीयस्य प्रथमः पादः ॥
—————-
३-२-१ जाग्रद्दोषविनिर्मुक्तः जीवः स्वप्नदशास्थितः ।
निर्दोष इति शङ्कैषा सान्ध्यनीत्या प्रतीर्यते ॥ ११९ ॥
३-२-२ स्वाप्नो जीवोऽथ दुष्टोऽस्तु सौषुप्तो दोषवर्जितः ।
तदभावनये चैषा शङ्कैव प्रत्युदीर्यते ॥ १२० ॥
३-२-३ कर्मानुस्मृत्यधिकृतौ सुषुप्तान्यसमुत्थितौ ।
निर्दोषो जीव एव स्याच्छङ्कैषा प्रत्युदीर्यते ॥ १२१ ॥
३-२-४ उक्तावस्थात्रयस्थस्य दोषभूयस्त्वसिद्धये ।
मुग्धन्यायस्सम्प्रवृत्तः तेनोपोद्धातसङ्गतिः ॥ १२२ ॥
३-२-५ अथात्रोभयलिङ्गाधिकरणे परमात्मनः ।
चेतनत्वेन सामान्यात्प्राप्तो दोषो व्यपोद्यते ॥ १२३ ॥
३-२-६ तथाहिकुण्डलनये प्रोक्तशुद्धिविशुद्धये ।
अचितो ब्रह्मरूपत्वम् तेनोपोद्धातसङ्गतिः ॥ १२४ ॥
३-२-७ उपादानात्प्रपञ्चस्य निमित्तम् परमिष्यते ।
विशुद्धम् तत्त्वमित्येवम् चोद्यम् परनयोच्छिनत् ॥ १२५ ॥
३-२-८ फलप्रदम् यदा कर्म कारणोपासना तदा ।
व्यर्थेत्याक्षेपशान्त्यार्थम् दाता फलनयोदितः ॥ १२६ ॥
इत्थमष्टाधिकरणी पेठिकाद्वयभूषिता ।
तृतीयस्य द्वितीयेऽस्मिन् पादेऽन्योन्यम् सुसङ्गता ॥ १२७ ॥
इति नयसङ्गतिमालिकायाम् तृतीये
द्वितीयः पादः ॥
—————-
उपासनाप्रसन्नेशफलदत्वप्रसङ्गतः ।
अनुष्ठानोपयोगाय तद्भेदाभेदचिन्तना ॥ १२८ ॥
३-३-१ शाखान्तराधिकरणप्रोक्तयुक्तिसमुच्चयात् ।
तद्वैश्वानरविद्याऽऽदौ सर्ववेदान्तनीतिनः ॥ १२९ ॥
३-३-२ अथान्यथात्वाधिकृतौ प्राग्वैश्वानरनीतिवत् ।
उद्गीथोपासनानामप्येकताऽपोद्यतेऽधुना ॥ १३० ॥
३-३-३ सर्वाभेदाधिकरणे रूपभेदनिदानतः ।
प्राणविद्याभेदशङ्काऽपोद्यतेऽन्तर्गतत्वतः ॥ १३१ ॥
३-३-४ सत्यादिविद्या भिन्ना स्यात्प्रक्रियारूपभेदतः ।
इति शङ्काऽऽनन्दनये स्वरूपात्प्रत्युदीर्यते ॥ १३२ ॥
३-३-५ कार्याख्यानाधिकरणे प्राणवासस्त्वचिन्तना ।
नियतेत्याह पूर्वाधिकरणन्यायसाम्यतः ॥ १३३ ॥
३-३-६ समानाधिकृतौ चापि रूपभेदाभिमानतः ।
विद्याभेदोऽपोद्यतेऽन्तर्गतम् हि वशितादिकम् ॥ १३४ ॥
३-३-७ अथ सम्बन्धाधिकृतौ रूपाभेदाभिमानतः । अक्ष्यर्कविद्यैक्यशङ्काऽपोद्यते स्थानभेदतः ॥ १३५ ॥
३-३-८ सम्भृत्यधिकृतौ स्थानभेदाभावनिबन्धना ।
व्याप्तिस्सर्वगता स्यादित्याशङ्का प्रत्युदीर्यते ॥ १३६ ॥
३-३-९ ब्रूते पुरुषविद्याधिकृतिः सन्निधिमानतः ।
पुम्विद्याम् परविद्याङ्गम् साधर्म्यादिह याजुषीम् ॥ १३७ ॥
३-३-१० अथ वेधाद्यधिकृतौ पुम्विद्योक्तप्रयत्नतः ।
शुक्रमित्यादिमन्त्राणाम् शङ्किताऽपोद्यतेऽङ्गता ॥ १३८ ॥
३-३-११ प्रोच्यते हान्यधिकृतौ प्राग्यथा कर्मशेषता ।
तथैव वस्तुसामर्थ्यलिङ्गादन्योन्यशेषता ॥ १३९ ॥
३-३-१२ साम्परायाधिकरणे हानोपायनचिन्तना ।
स्थाप्यते कालनिष्कर्षात्तेनोपोद्धातसङ्गतिः ॥ १४० ॥
३-३-१३ तथैवानियमन्याये सर्वेषामर्चिरादिका ।
गतिश्चेत्पूर्वसिद्धान्ताः भवेयुरुपपादिताः ॥ १४१ ॥
३-३-१४ अथाक्षरध्यधिकृतौ अर्चिरादिगतेरिव ।
स्युः सम्भन्धोऽक्षरधियामिति दृष्टान्तसङ्गतिः ॥ १४२ ॥
३-३-१५ ब्रह्मणो हेयराहित्यात् प्राणनादेरसम्भवात् ।
अन्तरत्वाधिकरणे जीवशङ्का व्यपोद्यते ॥ १४३ ॥
३-३-१६ कामाद्यधिकृतौ पूर्वन्यायेन वशितादिकम् ।
नियतम् स्यादितीयम् तु शङ्काऽपि प्रत्युदीर्यते ॥ १४४ ॥
३-३-१७ स्यात्तन्निर्धारणन्याये प्राङ्न्यायाधीनशङ्कया ।
उद्गीथोपासनानाम् च नियमोऽपि व्यपोद्यते ॥ १४५ ॥
३-३-१८ अपवादसमायातम् पूर्वाधिकरणम् ततः ।
स्यात्प्रधानाधिकरणम् कामाधिकृतिशेषतः ॥ १४६ ॥
३-३-१९ प्राक्सर्वदह्रविद्यैक्ये प्रक्रियाबलसम्मते ।
लिङ्गभूयस्त्वाधिकृतौ वाक्यात् शङ्का व्यपोद्यते ॥ १४७ ॥
३-३-२० अपवादकवाक्यस्याभावात् प्रकरणात्पुनः ।
शङ्का पूर्वविकल्पाख्यनयेन प्रत्युदीर्यते ॥ १४८ ॥
३-३-२१ अथासत्तेरतिशयात् तत्कालाकारचिन्तनम् ।
उपासकेsपोद्यतेऽथ शरीरेभावनीतितः ॥ १४९ ॥
३-३-२२ पूर्वाधिकृतिम्सिद्धान्तादासत्त्यतिशयेऽपि च ।
अङ्गावबद्धनीत्या स्यात् सर्वोद्गीथसमन्वयः ॥ १५० ॥
३-३-२३ उद्गीथोपासनन्यायाद्वैश्वानरमतावपि ।
समस्तव्यस्तताऽऽशङ्का भूम्नोन्यायादपोद्यते ॥ १५१ ॥
३-३-२४ नानाशब्दाधिकरणे वैश्वानरनयक्रमात् । सदक्षिहार्दादिधियामैक्यशङ्का व्यपोद्यते ॥ १५२ ॥
३-३-२५ विद्याभेदव्यवस्थायामेकस्यैवाधिकारिणः ।
समुच्चयस्यापवादः विकल्पाधिक्रियोदितः ॥ १५३ ॥
३-३-२६ उद्गीथोपास्तिनियमः विकल्पनियमो यथा ।
इति शङ्काऽपोद्यतेऽत्र यथाश्रयनये पुनः ॥ १५४ ॥
एवम् तृतीयाध्यायेऽस्मिन् तृतीये चरणेऽपि च ।
षड्विम्शत्यधिकाराणाम् सङ्गतिस्समुदाहृता ॥ १५५ ॥
इति नयसङ्गतिमालिकायाम् तृतीयस्य
तृतीयः पादः ॥
—————
चतुर्भिस्सप्तभिः द्वाभ्याम् द्वाभ्याम् न्यायैश्चतुर्विधैः ।
अङ्गपादे पञ्चदशाधिक्रियाणाम् समन्वयः ॥ १५६ ॥
३-४-१ नोद्गीथोपास्तिवत् ब्रह्मोपास्तेः क्रत्वर्थतेष्यते ।
पुरुषार्थाधिकरणे सङ्गतिः प्रत्युदाहृतिः ॥ १५७ ॥
३-४-२ ब्रह्मसम्स्थार्थवादत्वाभावेऽप्याश्रमवाक्ययोः ।
शङ्कोद्गीथार्थवादत्वे स्तुतिनीत्या प्रतीर्यते ॥ १५८ ॥
३-४-३ उद्गीथोपास्तिविधिवत् पारिप्लवविधिर्भवेत् ।
इति शङ्कापोद्यतेऽथ विद्यार्थत्वव्यवस्थया ॥ १५९ ॥
३-४-४ स्तुतिप्रसक्तौ न्यायौ द्वौ पारिव्राज्ये स्थिते सति । कर्मणोऽनङ्गताऽऽशङ्काऽपोद्याऽग्नीन्धननीतितः ॥ १६० ॥
३-४-५ यज्ञानपेक्षा विद्यैषा स्यादग्नीन्धननीतिवत् ।
इति शङ्काऽपोद्यतेऽथ सर्वापेक्षानये पुनः ॥ १६१ ॥
३-४-६ गृहस्थस्यापि विद्या चेत् शान्तिदान्त्याद्ययोगतः ।
शमाद्यनङ्गताऽऽशङ्का शमनीत्या व्यपोद्यते ॥ १६२ ॥
३-४-७ नापेक्षेत प्राणविद्या शममाहारगोचरम् ।
इति सर्वान्नानुमतिन्यायात् शङ्का व्यपोदिता ॥ १६३ ॥
३-४-८ एवम् कर्माखिलम् ज्ञाने विदुषाम् चेत्समाप्यते ।
अन्येषाम् स्वैरिताक्षेपापवादो विहितत्वतः ॥ १६४ ॥
३-४-९ चेद्विद्याऽमश्रमधर्माङ्गा नाधिकुर्यादनाश्रमी । इत्याक्षेपोपोऽद्यतेऽथान्तराचापिनये पुनः ॥ १६५ ॥
३-४-१० आरूढपतितानामप्यधिकारो भवेदिति ।
शङ्का तद्भूताख्यनये वचनेन व्यपोद्यते ॥ १६६ ॥
३-४-११ उद्गीथोपासने ऋत्विङ्नाधिकुर्यात्फलश्रुतेः ।
इत्याक्षेपोऽपोद्यतेऽथ स्वामिनीतौ प्रसङ्गतः ॥ १६७ ॥
३-४-१२ कर्माविरोधान्मननम् सहकार्यन्तरम् मतम् ।
प्राक्पञ्चमनयेनास्य सङ्गतिस्त्वापवादिकी ॥ १६८ ॥
३-४-१३ विद्याकर्मविरुद्धत्वात् बाल्यम् नैवाङ्गमिप्यते । इत्याक्षेपापवादस्स्यादनाविष्कृतिनीतितः ॥ १६९ ॥
३-४-९४ कर्म नाङ्गम् भोगहेतूपासने व्यभिचारतः ।
इत्याक्षेपप्रतिक्षेपः स्यादैहिकनयादिह ॥ १७० ॥
३-४-१५ एवम् मुक्तिफलोपास्तौ प्रोक्तो न्यायोऽतिदिश्यते ।
ततश्चानियमः प्रायः प्रबलम् प्रतिबन्धकम् ॥ १७१ ॥
एवम् तृतीयाध्यायस्य तुर्ये पादे सुसङ्गता ।
अधिक्रिया पञ्चदशी बहुसङ्कीर्णनिर्णया ॥ १७२ ॥
॥ इति नयसङ्गतिमालिकायाम् तृतीयस्य तुरीयः
पादः तृतीयश्चाध्यायः ॥
अथ तुर्याध्यायपादप्रधानार्था माता इमे । अघाश्लेषोत्क्रान्तिमार्गपरब्रह्मोपसम्पदः ॥ १७३ ॥
पेटिकाद्वयमाद्याङघ्रौ एका विद्याविशोधिनी ।
नीतिषट्काऽपरा नीतिपञ्चका फलबोधिनी ॥ १७४ ॥
४-१-१ शास्त्रार्थस्य सकृत्त्वे तु केयम् निष्पत्तिचिन्तना ।
इत्याक्षेपम् प्रतिक्षेप्तुमावृत्तिन्यायसम्भवः ॥ १७५ ॥
४-१-२ साक्षात्सदाऽऽत्मनः स्फूर्तौ काऽसावावृत्तिसाध्यता ।
इत्याक्षेपम् प्रतिक्षेप्तुमात्मत्वोपास्त्यधिक्रिया ॥ १७६ ॥
४-१-३ स्वात्मत्वेनोपास्तिरूपा विद्यौपनिषदी यदि ।
प्रतीकोपासनेऽप्येवमाक्षेपोऽपि व्यपोद्यते ॥ १७७ ॥
४-१-४ पुरापकृष्टे तूत्कृष्टदृष्टिः न्याय्येत्युदीरिता । आदित्यादाविहोद्गीथदृष्टिशङ्का व्यपोद्यते ॥ १७८ ॥
४-१-५ आवर्तव्या यद्युपास्तिः स्वैरमावृत्तिरिष्यते ।
इति शङ्काऽपवादः स्यादासीनाधिकृतौ पुनः ॥ १७९ ॥
४-१-६ आवृत्ताऽप्युपसम्हार्या स्वेच्छयेत्येष सम्शयः । आप्रयाणाधिकरणेऽपोद्यते श्रुतिदर्शनात् ॥ १८० ॥
४-१-७ प्राचीनपापानन्त्येन प्रायणान्ताऽप्युपासना ।
फलायानवकाशेति चाक्षेपोऽपि ततो हतः ॥ १८१ ॥
४-१-८ अथेतराधिकरणे पुण्यानन्त्येऽपि पूर्ववत् ।
नाशाश्लेषाविमौ प्रामादिकदुष्कर्मगोचरौ ॥ १८२ ॥
४-१-९ तथाऽनारब्धातिरिक्तविषयावित्यपि स्थितिः । नातोऽध्यक्षविरोधस्स्यादित्याक्षेपः प्रशाम्यति ॥ १८३ ॥
४-९-१० सुकृतस्स्याप्यसम्श्लेषे स्वेराचारः प्रसज्यते ।
इत्याक्षेपस्यापवादः ह्यग्निहोत्रनये पुनः ॥ १८४ ॥
४-१-११ अग्निहोत्रादिसुकृतात् प्रारब्धस्य विनाशनम् । इत्याक्षेपस्यापवादः भोगान्तत्वव्यवस्थितेः ॥ १८५ ॥
इत्थम् तुरीयाध्यायस्य पादे प्राथमिके पुनः ।
एकादशानाम् न्यायानाम् क्रमात्सङ्गतिसङ्ग्रहः ॥ १८६ ॥
॥ इति नयसङ्गतिमालिकायाम्
चतुर्थस्य प्रथमः पादः ॥
—————
अत्र सप्तचतुस्सङ्ख्यैः न्यायैस्स्यात्पेटिकाद्वयम् ।
क्रमेण सामान्यगतिविशेषगतिगोचरम् ॥ १८७ ॥
४-२-१ प्रारब्धान्तेऽप्यनियतोत्क्रान्तौ फलविलम्बनम् ।
इत्याक्षेपम् प्रतिक्षेप्तुम् वागादिन्यायचिन्तना ॥ १८८ ॥
४-२-२ ततो मनोधिकरणम् प्रत्युदाहरणागतम् ।
तत्सर्वम् फलपर्वत्वाद्योगिचिन्त्यम् विचिन्त्यते ॥ १८९ ॥
४-२-३ उक्तम् श्रौतम् क्रमम् ज्ञात्वा पूर्वपक्षस्य सम्भवात् ।
आपवादिकसङ्गत्या स्यादध्यक्षनयोदयः ॥ १९० ॥
४-२-४ यथाश्रुतार्थमादाय पूर्वपक्षसमुद्भवात् ।
भूताधिकरणे चापि प्रोक्ताऽऽशङ्का व्यपोदिता ॥ १९९ ॥
४-२-५ अत्र ब्रह्माश्नुते विद्वानिति स्पष्टमनुश्रवात् । उत्क्रान्त्याक्षेपसम्शान्त्यै आसृतिन्यायचिन्तना ॥ १९२ ॥
४-२-६ उत्क्रान्तिमध्ये विश्रान्तेर्वैफल्याक्षेपशान्तये ।
फलस्य कल्पनायैव परसम्पत्यधिक्रिया ॥ १९३ ॥
४-२-७ परसम्पत्तिसत्त्वै सा लय एव भविष्यति ।
इति शङ्कापवादायाविभागनयनिर्णयः ॥ १९४ ॥
४-२-८ गतिसामान्येऽपि नाडी हुर्विवेका यदा भवेत् । अनैयत्योदिताऽऽशङ्का तदोकोनीत्यपोदिता ॥ १९५ ॥
४-२-९ रात्रियाने रश्म्यभावादचिन्त्या गतिचिन्तना । इत्याक्षेपापवादोऽपि रश्म्यनुन्यायगोचरः ॥ १९६ ॥
४-२-१० सत्त्सु सौरेषु तेजस्सु कालदोषनिबन्धनम् ।
प्रतिहन्तुमिहाक्षेपम् निशाधिकरणम् मतम् ॥ १९७ ॥
४-२-११ दक्षिणायनयाने तु चन्द्रमः प्राप्तिसम्भवात् ।
निर्निरोधगतिस्थित्यै दक्षिणायननिर्णयः ॥ १९८ ॥
एवम् चतुर्थाध्यायस्य द्वितीये चरणेऽपि च ।
द्विपेटिकान्तरक्षाधिकरणानि समागमन् ॥ १९९ ॥
॥ इति नयसङ्गतिमालिकायाम् तुरीयस्य
द्वितीयः पादः ॥
४-३-१ कालदोषप्रशान्तावप्यर्चिरध्वाव्यवस्थितौ । विक्षेपान्मोक्षलाभस्याक्षेपोऽर्चिर्नीत्यपोदितः ॥ २०० ॥
४-३-२ शाखाविरोधशान्तावप्यवान्तरसमुद्भवः ।
विक्षेपस्यापवादाय वायुन्यायसमुद्भवः ॥ २०१ ॥
४-३-३ वरुणाधिक्रियाऽप्येवमन्तस्सम्शयभेदिनी ।
योगाङ्गत्वेनार्चितरादिचिन्तनम् निरुपद्रवम् ॥ २०२ ॥
४-३-४ आतिवाहिकनीतावप्येवम् विशयधूननम् ।
आक्षेपो वाऽपवादो वा सङ्गतिस्त्ववधार्यताम् ॥ २०३ ॥
४-३-५ आतिवाहिकनिर्णीतावप्यतिवाह्याव्यवस्थितौ ।
वैफल्याक्षेपसम्शान्त्यै कार्याधिकरणोदयः ॥ २०४ ॥
तृतीयपादे पञ्चाधिकरण्युभयसम्पुटा ।
मार्गातिवाहविशयापुनरङ्कुरशान्तये ॥ २०५ ॥
इति नयसङ्गतिमालिकायाम् तुरीयस्य
तृतीयः पादः
————————
तुर्याऽध्याये तुर्यपादे पेटिकाद्वयभूषिते ।
त्रिकद्विकविभागेन मुक्त्यैश्वर्यम् निरूप्यते ॥ २०६ ॥
४-४-१ मुक्तिः स्वरूपाविर्भावश्चेत्सुषुप्तिरपीदृशी ।
मार्गादिचिन्तावैयर्थ्यम् सम्पन्नीत्या व्यपोदितम् ॥ २०७ ॥
४-४-२ अविभागेनेतिनये स्वरूपार्थविनिर्णयात् ।
उपोद्घातप्रक्रियया सङ्गतिः वेदितुम् क्षमा ॥ २०८ ॥
४-४-३ व्राह्याधिकरणे चापि प्रक्रिया प्रागुदीरिता ।
प्रोक्तैव सङ्गतिरपि तन्त्रिकम् ह्येकपेटिका ॥ २०९ ॥
४-४-४ एवम् मुक्तस्य चैश्वर्ये सर्वभोगात्मके सति ।
पर्यायेणैष सम्सार इत्याक्षेपोऽथ वारितः ॥ २१० ॥
४-४-५ अविघातेच्छमैश्वर्ये सङ्कल्पनयबोधितम् ।
अनन्तरनये प्रायेणान्तरातङ्कशोधनम् ॥ २११ ॥
४-४-६ जगद्व्यापारविरहे सम्पत्सावधिका भवेत् ।
इत्याक्षेपप्रतिक्षेपः जगद्व्यापारनीतितः ॥ २१२ ॥
एवम् षण्णीतयः पादे तुरीये तुर्यलक्षणे ।
समागमन् शास्त्रसारनिरूपणपरे शुभम् ॥ २१३ ॥ षट्पञ्चाशद्युतशतमिताधिकरणावलेः ।
आचार्यसूक्तिकुसुमपूर्णा सङ्गतिमालिका ॥ २१४ ॥
इमाम् श्रीभाष्यनिर्णीतनयसङ्गतिमालिकाम् ।
समर्पिताम् मोदते स्म प्रतिगृह्य श्रियः पतिः ॥ २१५ ॥
मालैषा सङ्ग्रहेच्छूनाम् मोदाय समगृह्यत ।
लक्ष्मीपुरम् श्रीनिवासविपश्चिच्चक्रवर्तिना ॥ २१६ ॥
इति नयसङ्गतिमालिकायाम् चतुर्थाध्यायस्य
चतुर्थः पादः ॥
अध्यायश्च समाप्त:
॥ इति श्रीवत्सकुलतिलकस्य लक्ष्मीपुराभिजनश्रीनिवासाचार्यस्य
कृतिषु श्रीभाष्यनयसङ्गतिमालिका सम्पूर्णा ॥
षट्पञ्चाशुद्युतशतविषयावलिगुम्भितम् ।
श्रीभाष्यभूषणम् नाम जीयात् श्रीभाष्यटिप्पणम् ॥ श्रीभाष्यभूषणमिदमात्मविद्याशुशुत्सया ।
लक्ष्मीपुरम् श्रीनिवासदासेन परिकर्मितम् ॥
चतुस्सूत्र्यन्तभाष्योक्तन्यायैस्सर्वोऽनुगम्यते ।
श्रीभाष्यार्थ इति ज्ञात्वा कृतम् सङ्क्षिप्तभूषणम् ॥
विदितसकलवेद्यैः दर्शितार्थाम्शलेशैः
ग्रथितमिदमपूर्वम् भूषणम् भाष्यसूक्तेः ।
विकसितमतितायै गुम्भितम् सम्पुटेऽस्मिन्
निखिलमतनिशान्ते क्षन्तुमर्हन्ति सन्तः ॥
इति श्रीमत्सत्सम्प्रदायसदाचार्यसुशिक्षितमतिना गुणगुरुश्रीभाष्यकारसुतवेङ्कटस्वामि तनयेव श्रीमद्विरक्तराघवार्यकरुणाकटाक्षविषयीकृतेन श्रीमत्पण्डितरत्नकस्तूरीरङ्गनाथकृपासमासादितसारस्वतसर्वस्वेन श्रीमन्महीशूरमहाराजतुर्यश्रीकृष्णराजपारपोषितेनलक्ष्मीपुराभिजन श्रीनिवासाचार्येण महामहोपाध्यायेन पण्डितरत्ने नास्थान धर्माधिकारिणा प्रणीतमिदम् श्रीभाष्य भूषणम् नाम भगवद्रामानुजाचार्य शारीरक
भाष्यस्य विवरणम् समाप्तम् ।
वासुदेवः प्रीयताम् ॥
——————————–